________________
दीपोत्सवकल्पः ॥]
[३५ वर्षिष्यन्ति तथाम्भोदास्तथा वास्यन्ति वायवः । तप्स्यत्यर्कस्तथा सर्वं, यथा भस्म भविष्यति ॥१९८॥ तदा च विरसा मेघाः, क्षारमेघाम्लमेघकाः । विषाग्न्यशनिमेघाश्च वर्षिष्यन्त्यात्मसन्निभम् ॥१९९।। येन भावी कासः श्वासः, शूलं कृष्टं जलोदरम् । ज्वरः शिरोत्तिरन्येऽपि, मनुष्याणां महाऽऽमयाः ॥२००।। दुःखं स्थास्यन्ति तिर्यञ्चो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः ॥२०१॥ वैताढ्यऋषभकूटगङ्गासिन्धुर्विमुच्य च । समीभविष्यत्यखिलं गिरिगर्त्तापगादिकम् ॥२०२।। अङ्गारमर्मराभा भूर्भष्मरूपा भविष्यति । कदाचिद्धूलिबहुला, कदाचित्सान्द्रकर्दमा ॥२०३।। रत्निमानाः पुरुषाङ्गा, दुर्वर्णा निष्ठरोक्तयः । रोगार्ताः क्रोधना उच्चघाटाश्चिपटनासिकाः ॥२०४।। निर्लज्जा वस्त्ररहिता, भविष्यन्ति नराः स्त्रियः । आयुर्विशतिरब्दानि नृणां स्त्रीणां तु षोडश ॥२०५।। गर्भं वक्ष्यति षड्वर्षा, स्त्री दुःखप्रसवा तदा । स्थविरा षोडशाब्दा च, भूयिष्ठसुतनप्तृकाः ॥२०६।। भाविनो बिलवासाश्च, गिरौ वैताढ्यनामनि । द्वासप्ततिर्नद्यभयतटभष बिलानि त ॥२०७।। कूले कूले कूलिनीनां, बिलानि नव तत्र च । तिर्यञ्चस्तु भविष्यन्ति, बीजमात्रतयैव हि ॥२०८।। पललाहारनिरता, नृशंसा निर्विवेककाः । तदानीं च भविष्यन्ति, मनुष्याद्या अशेषतः ॥२०९।। तदा रथपथमात्रं, गङ्गासिन्धुनदीजलम् । प्रवक्ष्यति चलन्मत्स्यकच्छपादिभिराचितम् ॥२१०।। १. श्लोकोऽयं B, C, D मध्ये नास्ति । २. श्लोकोऽयं B, D प्रतिषु न दृश्यते । ३. रत्निमानपुरुषाङ्गः । C-१६१ । ४. च A | ५. रावृत्तम् A I
D:\chandan/new/kalp-1/pm5\3rd proof