________________
३४]
[दीपालिकापर्वसंग्रहः ॥ अन्तिमश्रीसङ्घस्य स्थिति:
आचार्यो दुःप्रसहाऽऽख्यः, फल्गुश्रीरिति साध्व्यपि । श्रावको नागिलो नाम, सत्यश्री श्राविका पुनः ॥१८७।। विमलवाहन इति राणमन्त्री सुमुखाभिधः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते ॥१८८।। रनिद्वयप्रमाणाङ्गा, विंशत्यब्दायुषश्च ते ।। तपो दुःप्रसहादीनां, चतुर्णां षष्ठमुत्कटम् ॥१८९॥ दशवैकालिकभृद्यः, स चतुर्दशपूर्वभृत् । प्रबोधयिष्यति सङ्घ, तीर्थं दुःप्रसहावधि ॥१९०।। ततोऽग्विय॑ते धर्मो, धर्मो नास्तीति यः पुनः । वदिष्यति स सङ्घन, कर्त्तव्यः सङ्घतो बहिः ॥१९१।। द्वादशाब्दी गहे नीत्वाष्टाब्दी दष्प्रसहो व्रते । पर्यन्तेऽष्टमभक्तेन, सौधर्मं कल्पमेष्यति ॥१९२।। पूर्वाह्नेऽथ चारित्रस्य, समुच्छेदो भविष्यति । मध्याह्न राजधर्मस्यापराह्ने जातवेदसः ॥१९३॥६ इत्थं च दुःषमा वर्षसहस्राण्येकविंशतिः ।
एकान्तदुःषमाकालोऽप्येवम्मानो भविष्यति ॥१९४।। षष्ठारकस्य स्थितिः
धर्मतत्त्वे प्रणष्टेऽथ, हाहाभूतो भविष्यति । पशुवन्मातृपुत्रादिव्यवस्थावजितो जनः ॥१९५।। परुषाः पांशुभूयांसोऽनिष्टा वास्यन्ति वायवः । दिशश्च धूमायिष्यन्ति, भीषणाश्च दिवानिशम् ॥१९६॥ इन्दुः स्रक्ष्यत्यतिशीतं, तप्स्यत्ययुष्णमर्यमा । अतिशीतोष्णाभिहतो, लोक: क्लेशमवाप्स्यति ॥१९७।।
15
१. श्लोकोऽयं A मध्ये नोपलभ्यते । २ श्लोकोऽयं A मध्ये नोपलभ्यते । ३. मन्त्री च B, D | ४. ०पूर्ववित् |C-१४९। ५. वय॑ति B, C, D | ६. १९३अनन्तरं दृश्यमानोऽयं श्लोक: अन्यत्र नास्ति । वासाण वीससहस्सा नव सय तिम्मास पंचदिणपहरा । इक्का घडिआ दोपल अक्खरइगुआल जिणधम्मो ॥२३॥
D:\chandan/new/kalp-1/pm5\3rd proof