SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दीपोत्सवकल्पः ॥] द्विपृष्ठश्च त्रिपृष्ठश्च, नवामी अर्धचक्रिणः । चटत्प्रकर्षा रामास्तत्र प्रथमतो बलः ॥ २४६॥ भाविबलदेवा: - - जयन्तोऽथाऽजितो धर्मः, सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मस्तथा सङ्कर्षणोऽन्तिमः ॥२४७॥ भाविप्रतिवासुदेवाः · प्रत्यर्धचक्रिणैते तिलको लोहजङ्घकः । वैज्रजङ्घः केसरी च बेलिः प्रह्लाद इत्यपि ॥२४८॥ तथाऽपराजितो भीमः, सुग्रीवो नवमः पुनः । इत्युत्सर्पिण्यां त्रिषष्टिशलाकापुरुषा अमी ॥२४९॥ एवमाख्याय समवसरणान्निर्ययौ प्रभुः । हस्तिपालनरेन्द्रस्य, शुल्कशालां जगाम च ॥२५०॥ प्रभोर्निर्वाणं दीपोत्सवप्रवर्तनं च - स्वामी तद्दिनयामिन्यां विदित्वा मोक्षमात्मनः । दध्यावहो गौतमस्य, मयि स्नेहो निरत्ययः ॥२५१॥ स एव केवलज्ञानप्रत्यूहोऽस्य महात्मनः । स च्छेद्य इति विज्ञाय निजगादेति 'गौतम ! ॥ २५२ ॥ देवशर्मा द्विजो ग्रामेऽपरस्मिन्नस्ति स त्वया । बोधं प्राप्स्यति तद्धेतोस्तत्र त्वं गच्छ गौतम' ! ॥२५३॥ 'यैदादिशति मे स्वामी' त्युदित्वा च प्रणम्य च । जगाम गौतममुनिस्तथा चक्रे प्रभोर्वचः ॥२५४॥ तदा च कार्तिकदर्शनिशायाः पश्चिमे क्षणे । स्वातिऋक्षे वर्त्तमाने कृतषष्ठो जगद्गुरुः ॥ २५५॥ कल्याणफलपाकानि, पञ्चपञ्चाशतं तथा । तावन्त्यघविपाकानि, जगादाध्ययनानि च ॥ २५६॥ युग्मम् | षट्त्रिंशत्तमपृष्टव्याकरणान्यभिधाय च । प्रधानं नामाध्ययनं जगद्गुरुरभावयत् ॥ २५७॥ १. . वैजयन्तो धर्म: B, D। २. यथादिशति । C - २२२ । ३. प्रश्न. । C - २२४ । D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof [ ३९ 5 10 15 20 25
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy