________________
३०]
[दीपालिकापर्वसंग्रहः ॥ अतः परं दुःषमायां, कषायैर्लुप्तधर्मधीः । भावी लोकोऽपमर्यादोऽत्युदकक्षेत्रभूरिव ॥१७१॥१ यथा यथा यास्यति च, कालो लोकस्तथा तथा । कुतीथिमोहितमतिर्भाव्यहिंसादिवर्जितः ॥१७२॥ ग्रामाः श्मशानवत्प्रेत-लोकवन्नगराणि च । कुटुम्बिनश्चेटसमा, यमदण्डसमा नृपाः ॥१७३॥ लुब्धा नृपतयो भृत्यान् , ग्रहीष्यति धनं निजान् । तद्धृत्याश्च जनमिति, मात्स्यो न्यायः प्रवर्त्यति ॥१७४।। येऽन्त्यास्ते भाविनो मध्ये, ये मध्यास्तेऽन्तिमाः क्रमात् । देशाश्च दोलायिष्यन्ते, नावोऽसितपटा इव ॥१७५।। चोर्याच्चोराः पीडयिष्यन्त्युर्वी भूपाः करेण तु । श्रेण्यो भूतग्रहप्राया, लुञ्चालुब्धा नियोगिनः ॥१७६।। भावी विरोधो स्वजनैर्जन: स्वार्थकतत्परः । परार्थविमुखः सत्यलज्जादाक्षिण्यवजितः ॥१७७।। गुरून्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । अतो ज्ञानोपदेशं न, प्रदास्यन्ति कथञ्चन ॥१७८।। एवं गुरुकुलवासः, क्रमादपगमिष्यति । मन्दा धी विनी धर्मे, बहुसत्त्वाकुलाः च भूः ॥१७९।। न साक्षाद्भाविनो देवा, विमस्यन्ते सुताः पितॄन् । सीभूताः स्नुषा श्वश्रूः कालरात्रिसमाः पुनः ॥१८०।। दृग्विकारैः स्मितैर्जल्पैविलासैरपरैरपि । वेश्यामनुकरिष्यन्ति, त्यक्तलज्जाः कुलस्त्रियः ॥१८१।।
15
20
१. श्लोकसंख्या १७१ तथा १७२मध्ये A प्रतौ श्लोकोऽयं दृश्यते । यथा - तिरस्कार्य पुरस्कार्य नृणां भावी विपर्ययः ।
अस्वस्था भाविनो देशाः कृतपापा इवाङ्गिनः ॥१॥ A-१९१। अन्यत्र नास्ति । २. A, E मध्ये नास्ति । ३. एकव्यापारवन्त इत्यर्थः । श्रेणीभूत० इति संभाव्यते । ४. विरोधी स्वार्थे ॥१३६-C।। ५. श्रुतज्ञानोपदेशं न ॥१३६-C।। ६. सहोदरा AI
D:\chandan/new/kalp-1/pm5\3rd proof