________________
[२९
दीपोत्सवकल्पः ॥]
पितुः पापफलं घोरं, शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमर्हच्चैत्यविभूषिताम् ॥१६३।। पञ्चमारकपर्यन्तं, यावदेवमतः परम् ।
प्रवृत्तिजिनधर्मस्य, भविष्यति निरन्तरम् ॥१६४॥२ पञ्चमारकभरतक्षेत्रस्थितिनिरूपणम् -
इदं हि भरतक्षेत्रं, ग्रामाकरपुराऽऽकुलम । धनधान्याञ्चितमर्हत्कालेऽभूत्स्वर्गसन्निभम् ॥१६५।। ग्रामा नगरवत्स्वर्गसमानि नगराणि च । कुटुम्बिनो नृपसमा, नृपा वैश्रमणोपमाः ॥१६६।। आचार्याश्चन्द्रमास्तुल्याः, पितरो देवतासमाः । श्वश्रुश्च जननीकल्पाः, श्वशुराः पितरोपमाः ॥१६७।। सत्यशौचपरो धर्माऽधर्मज्ञो विनयप्रियः । गुरुदेवार्चकः स्वस्त्रीसन्तुष्टश्च सदा जनः ॥१६८॥ अर्घति स्म च विज्ञानं, विद्याशीलं कुलं तथा । परचक्रेतिदस्युभ्यो, नाऽभूगीन करोऽपि च ॥१६९।। अर्हद्भक्ताश्च राजानोऽवगीताश्च कुतीर्थिकाः । बभूवुरुपसर्गादीन्याश्चर्याणि दशापि च ॥१७०।।
15
१. श्लोकसंख्या १६३ तथा १६४मध्ये निम्नोद्धताः त्रयः श्लोकाः केवलं A प्रतौ सन्ति, अन्यत्र न सन्ति ।
सद्वासप्ततिवर्षायुस्तत्पुत्रो जितशत्रुराट् । तत्सूनुर्मेघघोषाख्यो नृपः धर्मपरायणः ॥१।। भावि महानिशीथं न, कल्किनोऽनन्तरं किल । भस्मकापगमे देवैरपि स्वं दर्शयिष्यति ॥२॥ विद्या मन्त्रा अपि स्तोकजापादपि स्वसिद्धिदा ।
भविष्यन्त्यवधिज्ञानजातिस्मृत्यादयो मनाक् ॥३॥ २. श्लोकोऽयं F, J मध्ये नास्ति । ३. श्लोकोऽयं E प्रतौ नास्ति । ४. स्वस्त्रुश्च जननीतुल्याः श्वशुराः पितृसन्निभाः । C-१२६ जननीकल्पाः A | ५. तदा C-१२७ । ६. ईतिरुपद्रवः । ७. दस्युभ्योऽभून्न भीन करो नवः ॥C-१२८।।
D:\chandan/new/kalp-1/pm5\3rd proof