________________
२८]
[दीपालिकापर्वसंग्रहः ॥ तं जल्पिष्यति 'शक्रोऽपि. नैतेषामस्ति किञ्चन । भिक्षांशमपि दास्यन्ति न कस्यापि कदाप्यमी ॥१५७॥२ भिक्षुभ्यो याच्यमानस्त्वं, भिक्षांशं लज्जसे न हि ? । तन्मुञ्चामूनन्यथा ते भाव्यनर्थो महान् खलु' ॥१५८।। कुप्यन्नितिगिरा कल्की, वदिष्यत्यररे ! भटाः ! । कण्ठे धृत्वा द्विजममुमपसारयत द्रुतम्' ॥१५९॥ इत्युक्ते कल्किनं कल्कपर्वतं पाकशासनः । चपेटाताडनात् सद्यो, भस्मराशीकरिष्यति ॥१६०।। षडशीतिं वत्सराणामायुः सम्पूर्य कल्किराट् । नारको नरकावन्यां, दुरन्तायां भविष्यति ॥१६१।। अनुशिष्याऽऽर्हतं धर्मं, दत्ताख्यं कल्किनः सुतम् । राज्ये निवेश्य वन्दित्वा, सद्धं शक्रो गमिष्यति ॥१६२॥
10
१. असौ श्लोक: A, B मध्ये नास्ति । २. १५७ तथा १५८ मध्यस्थिता अधोदर्शिताः षट्श्लोकाः केवलं A प्रतौ दृश्यन्ते अन्यत्र न सन्ति ।
जल्पिष्यति सुरेशस्तं मुनीन् भूपाल ! पालय । ये त्वां पुण्यषडंशेन सर्वदाप्युपकुर्वते ॥१६८॥ सारम्भाभूपपाखण्डास्त्वया स्वैरं विडम्बिताः । भिक्षामात्रभुजो नामी युक्ताः पीडयितुं तदा ॥१६९॥ भिक्षांशमपि दास्यन्ति न कस्यापि कदाचन । भिक्षुभ्यो याचमानं स्वं भिक्षांशं लज्जसे न हि ॥१७०।। अध:कृतं तपस्तेजः किञ्चानर्थाय जायते । दहत्येव हि धातारं, दीपवतिरधोमुखी ॥१७१।। पर्यन्तं विरसादस्मात्ततो हि त्वं दुराग्रहात् । निवर्तस्व प्रवर्तस्व, पथि न्याय्ये जिजीविषुः ॥१७२।। मुक्तारम्भममत्वानां, नैतेषामस्ति किञ्चन ।
तन्मूञ्चामूनन्यथा ते, भाव्यनर्थो महान् खलु ॥१७३।। ३. असौ श्लोक: A, B मध्ये नास्ति ।
D:\chandan/new/kalp-1/pm5\3rd proof