________________
दीपोत्सवकल्पः ॥]
[२७ अहोरात्रान् सप्तदश, वर्षिष्यत्यथ वारिदः । गङ्गाप्रवाहश्चोद्धृत्य, तत्पुरं प्लावयिष्यति ॥१४४।। तत्राचार्यः प्रातिपदः कोऽपि सङ्घजनोऽपि च । पूर्लोकः कोऽपि कल्की च स्थास्यन्ति स्थलमूर्धनि ॥१४५।। गङ्गाप्रवाहपयसा, परितोऽपि प्रसारिणा । यास्यन्ति निधनं सद्यो, बहवो पुरवासिनः ॥१४६।। जलोपसर्गे विरते, नन्दद्रव्येण तेन तु । कल्किराजः पुनरपि, करिष्यति नवं पुरम् ॥१४७॥ भविष्यन्त्यायतनानि, विहरिष्यन्ति साधवः । वर्षिष्यन्ति च कालेऽब्दाः, सस्यनिष्पत्तिकारणम् ॥१४८।। द्रव्येण कुम्भलाभेऽपि, सस्यं न क्रेष्यते जनः । पञ्चाशदब्दीमेवं च, सभिक्षं भावि कल्किनि ॥१४९।। आसन्नमृत्युभूयोऽपि, कल्कीपाखण्डिनोऽखिलान् । त्याजयिष्यति लिङ्गानि, व्यपद्रोष्यति चोच्चकैः ॥१५०॥ ससङ्गं च प्रातिपदं, न्यस्य गोवाटके तदा । याचिष्यते स भिक्षायाः, षष्ठं भागं दुराशयः ॥१५१॥ सङ्घः शक्राराधनाय, कायोत्सर्ग करिष्यति । शासनदेव्यो वक्ष्यन्ति, कल्किन् ! क्षेमाय न ह्यदः ॥१५२॥ सङ्घस्य कायोत्सर्गानुभावेन चलितासनः । वृद्धद्विजवपुर्भूत्वा, शक्रस्तत्रागमिष्यति ॥१५३॥ महासिंहासनासीनं, कल्किनं पर्षदि स्थितम् । शक्रो वक्ष्यति 'किं न्वेते, निरुद्धाः साधवस्त्वया' ? ॥१५४।। कल्की भाषिष्यते शक्रं, 'मत्पुरे निवसन्त्यमी । न मे करं तु यच्छन्ति, भिक्षाषष्ठांशमप्यहो ! ॥१५५॥ पाखण्डाः करदाः सर्वे, ममाभूवन्नमी पुनः ।
दुर्गवीवबलाद्दोग्धुं , निरुद्धास्तेन वाटके' ॥१५६।। १. वर्षिष्यति च कालेऽब्द: C-१०७ । २. द्रम्मेण C-१०८, B, D । ३. व्युपद्रोष्यति B, C-१०९ । ४. किन्त्वेति A, C-११३ ।
15
D:\chandan/new/kalp-1/pm5\3rd proof