________________
5
10
15
20
२६]
[ दीपालिकापर्वसंग्रहः ॥
स्थविराश्च वदिष्यन्ति, ‘भाविनं सूचयत्यसौ । जलोपसर्गमत्यन्तं, तत् क्वापि व्रजतान्यतः ' ॥१३२॥ श्रुत्वा तत् क्वापि यास्यन्ति विहारेण महर्षयः । अन्ये तु भक्तवस्त्रादिलुब्धा वक्ष्यन्त्यदः खलु ॥१३३॥ कालात् कर्मवशाद्भावि, शुभं वा यदि वाऽशुभम् । कस्तन्निषेधयितुमलम्भुष्णुर्जिष्णुरपि स्वयम् ॥१३४॥२ ततः पाखण्डिनः सर्वान्, कल्की याचिष्यते करम् । ते च तस्मै प्रदास्यन्ति सारम्भाः संपरिग्रहाः ॥ १३५ ॥ 'अन्यैः पाखण्डिभिर्दत्तः, करो यूयं न दत्थ किम्' ? | इति ब्रुवाणो लुब्धात्मा, स साधूनमपि रोत्स्यति ॥१३६॥ साधवस्तं वदिष्यन्ति, ‘राजन् ! वयमकिञ्चनाः । भिक्षाभुजो धर्मलाभं, विना किं दद्महे तव' ? ॥१३७|| पुराणेषूक्तमस्त्येवं ब्रह्मनिष्ठांस्तपोधनान् । रक्षंस्तत्पुण्यषष्ठांशभाग्भवेदवनीपतिः ॥१३८॥ अस्माद्दुष्कर्मणस्तस्माद्विरमावनिशासन ! । व्यवसायोऽशुभायायं पुरे राष्ट्रे च सर्वथा ॥ १३९॥ एवं मुनिवचः श्रुत्वा, कल्की कोपिष्यति द्रुतम् । उद्भृकुटिः करालास्यः कृतान्त इव भीषणः ॥१४०॥ किमरे ! मर्त्तुकामोऽसि, मर्त्याधममुनीनपि । याचसेऽर्थं वक्ष्यतीति ततस्तं पुरदेवता ॥ १४१ ॥ देवतावचसा तेन, सिंहनादेन दन्तिवत् । भीतः कल्की नतिपूर्वं तान् साधून् क्षमयिष्यति ॥१४२॥ भविष्यन्ति च भूयांसस्तदोत्पाता भयङ्कराः ।
अन्वहं कल्किराजस्य नगरक्षयसूचकाः ॥१४३॥
१. तत् केऽपि ॥C९२॥ २. श्लोकोऽयं सर्वास्वपि प्रतिषु १३३ वर्णयुक्तो दृश्यते । ३. ते सारम्भपरिग्रहाः ॥८९८ ॥ ४. रोत्स्यते B, C, D । ५. साधवस्ते B । ६. ध्रुवम् ॥९९॥ ७. नगरक्षयकारिण: A, BI
D:\chandan/new/ kalp-1 / pm5\3rd proof