________________
10
२२]
[दीपालिकापर्वसंग्रहः ॥ भूपः कुमारपालाख्यो, हेमसूरिगुरोर्गिरम् । निशम्य भविता श्राद्धः, सम्प्रतिप्रतिमो गुणैः ॥११२॥ राजा कुमारपालोऽथ, कारयिष्यति मेदिनीम् । उत्तुङ्गगिरिशृङ्गाभजिनप्रासादमण्डिताम् ॥११३॥ भो भव्याः श्रूयतां सम्यक् पञ्चमारप्रभावतः । नाना भेदा भविष्यन्ति, ममापि खलु शासने ॥११४।। मत्तीर्थे वर्तमानानां, मदेकागमपाठिनाम् । नानाविधानि वतिनां, भवितारो मतान्यहो ॥११५॥ २स्वाम्याख्यान्मम निर्वाणादतीतैर्वत्सरैस्त्रिभिः ।
सार्धाष्टमाससहितैः, पञ्चमारः प्रवेक्ष्यति ॥११६।।३ १. श्लोक११२ तथा ११३मध्ये G. L. प्रतयोः इमे चत्वारः श्लोकाः कथञ्चित् पाठभेदेन दृश्यन्ते -
राजा कुमारपालाख्यः, चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥१॥ स महात्मा दानयुतः धर्मवीरः प्रजा निजाम् । ऋद्धि नेष्यति परमां पितेव परिपालयन् ॥२॥ पराक्रमेण धर्मेण दानेन च दयाऽऽज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति ॥३॥ स कौवेरीमातुरष्कमौद्रिमत्रिदशापगाम् ।
दक्षिणाविन्ध्यपश्चिमावाधि साधयिष्यति ॥४॥ २. श्लोकोऽयं F मध्ये नास्ति । ३. तथा ११६-११७ मध्ये चत्वारः प्राकृतश्लोकाः सन्ति
कलहकरा डमरकरा, असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा, दससु वि खित्तेसु सयराहं ॥१॥ ववहारमंततंताइएसु निच्चुज्जुआण य मुणीणं । गलिहंति आगमत्था, अत्थलुद्धाण तद्दियहं ॥२॥ उवगरणवत्थपत्ताइआण वसहीण सड्याणं च । झुज्झिस्संति कएणं, जह नरवइणो कुडुंबीणं ॥३॥ बहवे मुंडे अप्पे समणा होहंति गुणसयाइन्ना । बलवंता मिच्छनिवा, अप्पबला हिंदुअनरिंदा ॥४|| B, C, D मध्ये न सन्ति ।
D:\chandan/new/kalp-l/pm5\3rd proof