________________
[२३
दीपोत्सवकल्पः ॥] कल्किस्वरूपम् -
मन्निर्वाणाद् गतेष्वब्दशतेष्वेकोनविंशतौ । चतुर्दशाब्द्यां च म्लेच्छकुले चैत्राष्टमीदिने ॥११७।। विष्टौ भावी नृपः कल्की, स रुद्रोऽथ चतुर्मुखः । नामत्रयेण विख्यातः, पाटलीपुरपत्तने ॥११८।।
१. ११७ तथा ११८ श्लोकमध्ये अधो प्रदर्शितसंस्कृतगद्यभाग: A मध्येऽस्तिएके त्वाः "श्रीवीरात् १९०२८ वर्षेषु पञ्चसु मासेषु च गतेषु कल्की भावी" इति । अम्हं निव्वाणाओ गोयम ! वासाण सहस्स दो एवं तह । विक्कमकालाओ पनरसतीसम्मि तस्संतो ॥
तत्पित्रादिजन्मसमयादि चैवम्- पाटलीपुरे यशगृहे यशोदाकुक्षौ जयसंवत्सरे चैत्राष्टम्यां जयश्रीदिने रात्रिमध्याह्ने तस्यावतरणम् । ततस्त्रयोदशमासानन्तरं चैत्रशुक्लाष्टम्यां विष्टौ निशीथसमये मकरलग्ने वहमाने मङ्गलवारे, अश्लेषाप्रथमपादे राशि नवभागीकृत्य षष्ट्यांशे कर्कस्थिते चन्द्रे ऐन्द्रयोगे चतुर्मुखस्य जन्म भविष्यति । स त्रिहस्तोच्चः । कपिलकेशलोचनस्तीक्ष्णस्वरः । अदृष्टपृष्टलाञ्छनो महविद्योधुरो । विशालहृदयो गुणशीलोज्झितः । ततस्तस्य जन्मतः पञ्चमीवर्षे जठरापत् । सप्तमे वैश्वानरापत् । एकादशमे महाद्रव्यसम्पत् । अष्टादशे वर्षे कात्तिकमासे शुक्लपक्षे प्रतिपदि शनौ स्वातिनक्षत्रे तुलस्थे चन्द्रे नन्दिदिने बवकरणे सिद्धवेलायां रावणमुहूर्ते महाराजरुद्रस्य पट्टाभिषेको भावी । तस्य तुरङ्गमो अदन्तः कुन्ती दुर्वाकः । खड्गो दैत्यसूदनः किरीटो मृगाङ्गः । पादकटके सूर्यशशिनौ । धवलगृहं त्रैलोक्यसुन्दरम् । बद्धस्वर्णदानतो । विक्रमसंवत्सरमुत्थापयित्वा स्वीयं संवत्सरं स्थापयिष्यति। ___ ततः एकोनविंशे वर्षे भरतार्द्ध विग्रहाकुलं करिष्यति । सार्धविंशतितमे वर्षे अर्बुदसत्कखर्परराजदुहितृपाणिग्रहणं विधास्यति । ततोऽन्या राज्यो बहुतरा भविष्यन्ति । दत्तविजयमुञ्जा पराजिताख्याः पुत्राः । ततो बृहत्पाटलीपुरे कल्किनो राजधानी भविष्यति । पाटलीपुरस्य कल्किपुरमिति नाम भावि । दत्तस्य राजधान्यां राजगृहस्य दत्तपुरमिति । विजयस्य राजधान्या अणहिल्लपुरपाटणकस्य विजयपुरं (नाम) चेति । मुञ्जस्याऽवन्तिवर्धनदेशमर्पयिष्यति । अपराजितस्य अपरं च देशं कल्किराज्यसमये पृथिवी क्षत्रियाणां म्लेच्छानां च रुधिरेण स्नानं करिष्यति । तस्य भाण्डागारे नवनवतिस्वर्णकोट्यः । चतुर्दशसहस्रगजाः हस्तिनीनां सार्धचतुःशतानि सप्ताशीतिलक्षाश्वाः । पदातयः पञ्चकोट्यः । इतरजनसंख्या नास्ति । पञ्चासत्तमवर्षे वामजङ्घादक्षिणकुक्ष्योः प्रहारौ भविष्यतः । मन्निर्वाणाद् द्विवर्षसहस्रान्ते भाद्रशुक्लाष्टमी दिने रखौ ज्येष्ठाभे शक्रचपेटया पञ्चत्वं कल्किनः ।। केवल: J प्रतौ पाठोऽयमसम्पूर्णः कथञ्चित् पाठभेदेन दृश्यते ।
D:\chandan/new/kalp-1/pm5\3rd proof