________________
5
10
15
२०]
जंम्बूशिष्यः प्रभवश्च, भविता सर्वपूर्वभृत् । शय्यम्भवस्तु तच्छिष्यो, द्वादशाङ्गी भविष्यति ॥९६॥ दशवैकालिकग्रन्थं, स्रक्ष्यत्युद्धृत्य स श्रुतात् । तस्य शिष्यो यशोभद्रो, भविता सर्वपूर्वभृत् ॥९७॥ सम्भूत-भद्रबाहू च, तच्छिष्य सर्वपूर्विणौ । मम निर्वाणतो वर्षशतसप्ततिके गते ॥ ९८ ॥ ततो भद्रबाहुर्गणधरो देवलोकं गमिष्यति । स्थूलभद्रोऽथ सम्भूताऽन्तेवासी सर्वपूर्वभृत् ॥९९॥ शकटालात्मजः शीललीलोन्मालिमहायशाः । अर्थतोऽन्त्यचतुःपूर्वव्युच्छेदोऽस्मिन् भविष्यति ॥१००॥ महागिरि - सुहस्त्याद्या, वज्रान्ता दशपूर्विणः । ततः परं भविष्यन्ति मत्तीर्थस्य प्रभावकाः ॥१०१॥ षड्भिर्वर्षशतैर्विंशत्यधिकैर्मम मोक्षतः । ग्राममध्ये गृहेवासं करिष्यन्त्याऽऽर्यसूरयः ॥१०२॥ त्रिनवत्यधिकैर्वर्षशतैर्नवमितैस्तथा ।
आचार्या कालिकाह्वाना भविष्यन्तीन्द्रवन्दिताः ॥ १०३ ॥
[ दीपालिकापर्वसंग्रहः ॥
वीरजिणा पुव्वगयं सव्वं पि गयं सहस्सवरिसेहिं । सुन्नमुणिवेअजुत्तो (४७०) विक्कमकालो उ जिनकाला ॥ ११२ ॥
१. नवतितमतः नवनवतितमपर्यन्तं श्लोकाः A, C मध्ये न सन्ति । D प्रतौ गद्यपद्यरूपेण पाठभेदः तत्स्थले दृश्यते । A मध्ये १०२ श्लोकस्यान्तिमं चरणं “पुरादिषु गृहेवासं श्री आर्यर्षिः करिष्यति," इति दृश्यते । २. ०भवोऽपि D । ३. ततो भद्रबाहुगणधरः स्वर्गे गतः । D। ४. H, B अतिरिक्तप्रतिमध्ये श्लोकोऽयं नास्ति । ५. अर्थतः, महागिरिः E, F, G, H, I, J, K । ६. षड्वर्षशतैर्विंशत्यधिकैः श्रीमहावीरनिर्वाणात् गृहे ग्रामे वासः आर्यसूरिः करिष्यति D । ७. J, L मध्ये एवं दृश्यते
चतुःशतेषु वर्षाणां गतेषु सप्ततावपि । भूपतिर्विक्रमादित्यो, मन्निर्वाणाद्भविष्यति ॥१॥ उज्जयिन्या प्रभुः सोऽपि, मन्त्रसिद्धो महीपतिः । कृत्वाऽनृणां भुवं, स्वस्य वत्सरं वर्त्तयिष्यति ॥२॥
D:\chandan/new/kalp-1 / pm5\ 3rd proof