SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १८] [दीपालिकापर्वसंग्रहः ॥ अक्षीणसङ्ग्रहाम्भस्को, राजामत्यौ तु तौ विना । नवाम्बु लोका: सामन्तप्रमुखाश्च पपुस्ततः ॥८१॥ तत्पानात् ग्रेहिलाः सर्वे, ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यत्र, विना तौ राजमन्त्रिणौ ॥८२॥ राजामात्यौ विसदृशौ, सामन्ताद्या निरीक्ष्य ते । मन्त्रयाञ्चक्रिरे नूनं, ग्रहिलौ राजमन्त्रिणौ ॥८३॥ अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमन्त्रिणौ ॥८४।। मन्त्री ज्ञात्वेति तन्मन्त्रं, नृपायाख्यन्नृपोऽवदत् । आत्मरक्षा कथं कार्या, तेभ्यो वृन्दं हि राजवत् ॥८५॥ मन्त्र्युचे ग्रहिलीभूय, स्थातव्यं ग्रेहिलैः सह । त्राणोपायो न कोऽप्यन्य, इदं हि समयोचितम् ॥८६।। कृत्रिमं ग्रहिलीभूय, ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते, रक्षन्तौ निजसम्पदम् ॥८७।। ततः सुसमये जाते, शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् , स्वस्था मूलप्रकृतिधारिणः ॥८८॥ एवं च दुःषमाकाले, गीतार्था लिङ्गिभिः सह । सदृशीभूय वय॑न्ते भाविसुसमयेच्छवः" ॥८९॥ इति श्रुत्वा स्वप्नफलं, पुण्यपालो महामनाः । प्रबुद्धः प्राव्रजत् तत्र, क्रमान्मोक्षमियाय च ॥९०॥ भाविकालनिरूपणम् - इत्युक्तवन्तं श्रीवीरं, गौतमो गणधारकः । 'पप्रच्छ केवलादित्यं, किं कुत्रोच्छेदमेष्यति' ॥९१॥१० १. च ।। २. ग्रथिला: B, F, J, L | तत्पानादिव ग्रथिला: G| ३. असौ श्लोक: G मध्ये नास्ति । ४. ग्रथिलीभूय B। ५. ग्रथिलैः B। ६. ग्रथिलीभूय B। ७. वत्स्यन्ति A, C, E, F, G, I, LI वय॑न्ति-J । ८. स्वसमये० A, C, II (७२) ९. गणभृद्वरः । १०.९१ तथा ९२ मध्ये - अथेन्द्रभूतिः श्रीवीरं नत्वाऽप्राक्षीत् कृताञ्जलिः । एष्यत्कालस्वरूपं तु शलाकापुरुषान्वितम् ॥१०३॥ अयं श्लोकः, केवलं A, I मध्येऽस्ति । 20 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy