SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ८] [दीपालिकापर्वसंग्रहः ॥ स्वप्नकथनं फलादेशश्च *एवं च देशनां कृत्वा, विरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः, प्रभुं नत्वा व्यजिज्ञपत् ॥४४|| स्वामिन् ! स्वप्ना मयाद्याष्टौ दृष्टास्तत्र गजः कपिः । क्षीरद्रुः काकसिंहाऽब्जबीजकुम्भाः इमे क्रमात् ॥४५॥ *जीर्णशालास्थितो हस्ती, चापल्यं कुरुते कपिः । बब्बूलवृतक्षीरद्रुः, काकाश्च दीर्घिकारताः ॥४६॥ 'सिंहशवमथाधृष्यमस्थाने कमलोद्भवः । ऊखरोर्व्या बीजवापः, स्वर्णकुम्भाः मलाविलाः ॥४७॥ तदेषां फलमाख्याहि, भीतोऽस्मि भगवन्नहम्' । इति पृष्टो जगन्नाथो, व्याचकारेति तत्फलम् ॥४८॥ 10 तुलना- * किंच उदाहरणाइं, बहुजणमहिगिच्च पुव्वसूरीहिं । एत्थं निदंसियाई, एयाई इमम्मि कालम्मि ॥८१४॥ किञ्चेत्यभ्युपाये, उदाहरणानि दृष्टान्ताः बहुजनमधिकृत्य बहोरसंविग्नलोकस्य प्रवृत्तिमधिकृत्य पूर्वसूरिभिः प्राक्तनाचार्यैस्त्र प्रवचने निदर्शितान्येतानि । अस्मिन् दुष्पमालक्षणे काले एतत्कालोपयोगीनीत्यर्थः ॥८१४।। उदाहरणान्येव विवक्षुस्तावत्ततसम्बन्धमाह केणइ रन्ना दिवा, सुमिणा किल दसमससमंते । भीई चरमोसरणे, तेसिं फलं भगवया सिटुं ॥८१५॥ केनचिदनिर्दिष्टनाम्ना राज्ञा उपलब्धा स्वप्ना निद्रायमाणावस्थायां मनोविज्ञानविकाररूपाः । किलेत्याप्तप्रवदासूचनार्थः । अष्टेतिसंख्या दुःषमसुषमान्तेऽस्यामवसर्पिण्यां चतुर्थारकपर्यवसाने । ततो जागरितस्य भीतिर्भयमुत्पन्नम् । ततोऽपि च चरमसमवसरणे कार्तिकमासामावास्यायां तस्य पृच्छतः, तेषां स्वप्नानां फलं भगवता श्रीमन्महावीरेण शिष्टं कथितमिति ॥८१५॥ स्वप्नानेवाह गय वाणर तरु धखे, सिंहे तह पउम बीय कलसे य । पाएणं दुस्समाए, सुविणाणिट्ठफला धम्मे ॥८१६॥ गजवानरास्तरवो ध्वांक्षाः सिंहस्तथा पद्मबीजानि कलशाश्चेति । प्रायेण दुःषमायां स्वप्ना एतेऽनिष्टफला धर्मे अधर्मविषय इति । अत्र च गाथायां वचनव्यत्ययः प्राकृतत्वात् ॥८१६।। - इति उपदेशपदे। ★ जीर्णशाला.... . सिंहशव....श्लोकद्वयं A, I, J, L मध्ये अस्ति, अन्यत्र नास्ति । १. कल्पद्रुमः । २. तदाख्याहि फलं तेषां B, D, F, G, J, LI D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy