________________
४]
[दीपालिकापर्वसंग्रहः ॥ श्रीवीरचरित्रम् -
श्रीवीरप्राणतस्वर्ग-पुष्पोत्तरविमानतः । च्युत्वाऽऽषाढसिते पक्षे षष्ठ्यां हस्तोत्तरेन्दुनि ॥९॥ कुण्डग्रामेऽथ सिद्धार्थ-भूपुरन्दरमन्दिरे । आगमत् त्रिशलाकुक्षौ, सरस्यां राजहंसवत् ॥१०॥ [युग्मम्] सिंहो गजो वृषः श्री स्रक शशि नुर्ध्वजो घटः । सरोऽम्भोधिविमानं च, रत्नौघोऽग्निरिति क्रमात् ॥११॥ अपश्यत् त्रिशलादेवी, महास्वप्नांश्चतुर्दश । विशतो वदनाम्बुजे, प्रभौ गर्भागते निशि ॥१२॥ [युग्मम्] चैत्रमासि सिते पक्षे, त्रयोदश्यां जगत्पतिम् । असूत त्रिशलादेवी, सिंहावं कनकप्रभम् ॥१३।। इतश्च दिक्कुमारीणामासनानि चकम्पिरे । जिनजन्मप्रभावेण, वातेनेव महीरुहाः ॥१४।। अवधिज्ञानविज्ञातजिनजन्ममहोत्सवाः । आजग्मुदिक्कुमार्यस्ताः सूतिकर्म च चक्रिरे ॥१५॥ दत्त्वाऽवस्वापिनी देव्याः, पद्मिन्या इव शीतगुः । निधाय च तदभ्यर्णे, प्रभोः प्रतिकृति हरिः ॥१६॥ जिनजन्माभिषेकाय, कृत्वोत्सङ्गे जिनाधिपम् । मेरुमूनि सुधर्मेन्द्रो, भेजे कण्ठीरवासनम् ॥१७॥ १२अभिषिच्य प्रभुं तीर्थवारिभिश्चित्तहारिभिः ।
आनीय तत्क्षणं मातुरर्पयामास वासवः ॥१८।।
15
20
१. श्च्यु त्वा B | २. हस्तोत्तरोडुनि B, F, G, H, I, L | ३. गर्भस्थिते-A, F, G, I, L I ४. माससिते B | ५. वातेनैव B, F | ६. महीरुह: B, F | वृक्षा इत्यर्थः । ७. शक्रोऽपि चलितासनः A, I । ८. स दत्त्वा स्वापिनीं A, I । ९. चन्द्र इत्यर्थः । १०. प्रभुप्रतिकृति BI द्वितीयरूपमित्यर्थः । ११. स्वर्णसिंहासनमित्यर्थः । १२. विंशतिर्भवनाधीशा द्वात्रिंशत् व्यन्तराधिपाः । दश वैमानिका इन्द्राश्चन्द्रादित्यौ तदाऽऽगताः ॥ श्लोकोऽयं केवलं A, I प्रति मध्ये १७-१८ श्लोकमध्ये दृश्यते ।
D:\chandan/new/kalp-1/pm5\3rd proof