________________
कलिकालसर्वज्ञाऽऽचार्यवर्यश्रीहेमचन्द्रसूरीश्वरविरचितः
दीपोत्सवकल्पः ॥
दीपोत्सवमहिमा -
सन्तु श्रीवर्धमानस्य, सुखायाङघ्रिनखाः सताम् । दर्पणाः संयमश्रीणां, पद्मरागमया इव ॥१॥ यस्येदं वर्त्तते तीर्थं, तथा सङ्घश्चतुर्विधः । यदागमानुसारेण, पुण्येषु कुरुते रतिम् ॥२॥ नृषु चक्री सुरेष्विन्द्रस्तारकेषु हिमद्युतिः । महीरुहेषु कल्पद्रुः, शैलेषु कनकाचलः ॥३॥ मन्दाकिनी स्रवन्तीषु , तेजस्विषु दिवाकरः । ओङ्कारः सर्ववर्णेषु , देवतासु हरिप्रिया ॥४॥ उच्चैश्रवास्तुरङ्गेषु , द्विरदेषु सुरद्विपः । वल्लीषु भोगिनां वल्ली, सरसीषु च मानसम् ॥५॥ तथा पर्वसु दीपाली, प्रधाना विदिता भुवि । भूष्यन्ते कटरे यस्यां, पशुगेहद्रुमा अपि ॥६॥ भूषणानि प्रभूतानि, चीवराणि वराणि च । लोकः परिदधात्यस्यां, सर्वोऽपि मुदिताशयः ॥७॥ प्रदीपपर्वणोऽस्यैव, विशेषेण प्रकाशकम् । मेया श्रीवर्धमानस्य, चरित्रं चारु रुच्यते ॥८॥
१. श्लोकोऽयं A प्रतिमध्ये सप्तमो दृश्यते । २. लक्ष्मीः, इत्यर्थः । ३. नागवल्ली, इत्यर्थः । ४. दीवाली-A । ५. चीवराण्यम्बराणि A । ६. हेमचन्द्राचार्येण, इत्यर्थः । ७. चरितं BI
D:\chandan/new/kalp-1/pm513rd proof