________________
दीपोत्सवकल्पः ॥]
स्वराज्यवृद्धिकरणाद्यर्थार्थं पितरौ तदा । नामधेयं विदधतुर्वर्धमान इति प्रभोः ॥१९॥२ कथञ्चिद् गृहवासेऽस्थादष्टाविंशतिवत्सरीम् । स्मरन् स्वाभिग्रहं पूर्वं, प्रव्रज्योत्कण्ठितः प्रभुः ॥२०॥ पितृव्योऽथ सुपार्योऽभूत् , भ्राताऽऽद्यो नन्दिवर्धनः । सुदर्शना स्वसा तीर्थपतेः पत्नी यशोमती ॥२१॥ दुहिता महिता स्त्रीसु , बभूव प्रियदर्शना । कुटुम्बमिति वीरस्य, पवित्रं गाङ्गवारिवत् ॥२२।। दत्त्वा संवत्सरं दानमुक्तो लोकान्तिकामरैः । कृत्वा षष्ठं तपो देवैः कृतनिष्क्रमणोत्सवः ॥२३।। सहस्रवाह्यामारुह्य, शिबी चन्द्रप्रभाभिधाम् । ज्ञातखण्डवने गत्वा, सर्वसावद्यवर्जनात् ॥२४॥ मार्गशीर्षाभिधे मासि, श्यामायां दशमीतिथौ । प्रव्रज्यामग्रहीदह्नश्चतुर्थप्रहरे प्रभुः ॥२५॥१० उत्पेदे तुर्यकं ज्ञानं, जातं बहुलवेश्मनि । परमान्नेन नाथस्य, पारणं पुण्यकारणम् ॥२६।। गोपालाः कौशिकः शूलपाणिः सङ्गमकः सुरः । इत्यादिभिः प्रभुः ध्यानात् क्षोभ्यमानोऽपि नाक्षुभत् ॥२७।।
10
१. तथा A | २. अनन्तरं A, F, G, I, L प्रतिषु-महावीराभिधाहेतुः जैनेन्द्रस्य च कारणम् । अभूदिह यशोमत्या पाणिग्रहमहोत्सवः ॥२०॥ इति दृश्यते । महावीर इत्यभिधाया हेतुः कारणम्उत्पत्तिः, यशोमत्याः-यशोदायाः पाणिग्रहमहोत्सवश्च इह-अत्रान्तरे, अभूत्-संपन्नमिति भावः । B, H, J प्रतिषु - शैशवे बालकैः साकमामलकीश्रितेन च । निर्जितोऽमरस्तत्पृष्ठिघाते नीचीकृतोऽमरः ॥२०॥ तथा D प्रतौ - अत्रामलकीक्रीडादि सवयोभिः सह देवेन भुजगीभूय च स्थितं तत्राऽभितो भगवान् बिम्बरूपधरं देवमारुह्य मुष्टिना आहत्य पृष्ठे वामनीचकार इत्यस्ति । ३. अष्ट A, I । ४. भ्राताथो, H, A, । ५. भगिनीत्यर्थः । ६. गङ्गा A, J । ७. तीर्थ प्रवर्त्तयेत्युक्तस्ततो F, G, I, L । ८. कृत्वाष्टमं B, J । ९. मासे B । १०. अयं श्लोकः चतुर्विंशस्थाने, चतुर्विशश्च पञ्चविंशस्थाने A, D, E, F, G, H, J, L प्रतिषु दृश्यते । ११. मध्याह्ने बहुलावासे द्वितीये दिवसे भवेत् । इति F, G, I, L प्रतिमध्ये । ब्राह्मणग्रामे इत्यर्थः A ।
D:\chandan/new/kalp-1/pm5\3rd proof