________________
१९२]
[दीपालिकापर्वसंग्रहः ॥ पर्वप्रथनं सकलदेशेषु चकार, तेन नृपेण जिनधर्मस्य महाप्रभावना कृता नवीनजिनालयैर्जीर्णोद्धारैश्च पृथ्वीमण्डिताऽनार्यदेशेष्वपि जिनधर्मः प्रवर्तितो न्यायेन च राज्यं पालयामासाऽस्य विशेषेण वृत्तान्तस्त्वन्यग्रन्थाद् ज्ञेयः । एतद् दीपालिव्याख्यानं श्रुत्वा
तन्मध्यवर्णितपञ्चमारकभावांश्च निशम्य मुमुक्षुभिस्तत्सदृग्वैपरीत्यं न कर्तव्यं किन्तु सदा 5 धर्मे स्थिरता कार्या ।
निशम्यैवं भवक्लेश-नाशाय कुरुतोद्यमम् । वीरनिर्वाणसत्पर्व-सेवने सततं जनाः ॥१॥ कच्छदेशे वरे जक्खौ -पुरे धर्मिधनियुते । वर्द्धमानादितीर्थेशा-नेकप्रासादमण्डिते ॥२॥ चन्द्रशून्यखनेत्राब्दे, व्याख्यादीपालिपर्वणः । मार्गस्य कृष्णसप्तम्यां, स्वपरश्रेयसे कृता ॥३॥ मुनिमण्डलमुख्यस्य, गौतमाब्धेः शुभाज्ञया । मया नीत्यब्धिशिष्येणो-पाध्यायेन गुणाब्धिना ॥४॥
प्रमादवशगेनात्र, यत्कञ्चित् स्खलितं मया । 15 संशोध्यं तद्विपश्चिद्भिः क्षन्तव्यं च क्षमापरैः ॥५॥
इति दीपालिकाव्याख्यानम् ॥
D:\chandan/new/kalp-2/pm513rd proof