SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ दीपालिकाव्याख्यानम् ॥] [ १९१ मुनीश्वरं समाह्वयत् सोऽपि गुर्वाज्ञया समागत्य गुरून् वन्दित्वा गुरुमुखज्ञातसकलवृत्तान्तः पृथ्वीपसभायां समागतो नमुचिं विना सकलसभाजनवन्दितः स नमुचिमवोचत् । पृथ्वीधव ! पूर्णचतुर्मासाभिग्रहा एते मुनीश्वरा अन्यत्र गमिष्यन्ति तस्मादेतेभ्यः स्थिरताकृते कियतीं महीं प्रयच्छ तच्श्रुत्वा भूधवोऽभ्यधात् साधुभ्यः स्थिरताकृते मया त्रिपदीप्रमाणा मही दत्ता । तदाकर्ण्य समुत्पन्नकोपो विष्णुमुनीश्वरो वैक्रियलब्ध्या 5 लक्षयोजनप्रमाणं स्वशरीरं विधाय द्वाभ्यां पादाभ्यां सकलां महीं पूरयित्वा तृतीयक्रमस्थापनकृते पृथ्वीं प्रयच्छेति वदन् तृतीयचरणं तदीयपृष्ठे स्थापितवान् । साधुद्रोहकृत् नमुचिर्नरकं गतस्तदा लोके त्रिविक्रमेण बलीशत्रुः पाताले प्रक्षिप्त इति प्रसिद्धिर्जाता तस्मिन् समये रत्नाकरा मर्यादां तत्यजुः, पृथ्वीगिर्यादिकम्पमभजदिदं किं सञ्जातमितिजातसंशयः सदेवो वासवोऽपि तत्कारणज्ञानात् प्रगतशङ्कः सन् विष्णु - 10 मुनीश्वरकोपनिवारणार्थं गन्धर्वदेवान् प्रहितवान् तेऽपि तत्र समागत्य वासवोक्तप्रकारेण शमत्वकरैर्गान्धर्वगीतैर्विष्णुमुनीश्वरं प्रशान्तं कृतवन्तस्ततो महापद्मचक्री तं भ्रातृमुनीश्वरं प्राणमत्तदा मुनीश्वरस्तस्मा उपालम्भ दत्त्वा गुरुसमीपं समागत्याऽऽलोचनां गृहीत्वा श्रीजिनशासनप्रभावनां कृत्वा निरतिचारचारित्रः प्रकृष्टदुष्टकर्मशत्रून् हत्वा मोक्षं प्रययौ । तस्मिन्नुत्पाते शान्ते गतभयाः स्वस्थहृदया लोका नूतनवस्त्रभूषणालङ्कृताङ्गाः 15 परस्परं प्रणामपूर्वकं मिष्टान्नपानादिना सत्कारयामासुर्महोत्सवांश्च चक्रुस्ततः प्रभृति प्रतिसंवत्सरं लोका अस्मिन् प्रतिपद्वासरे नूतनवस्त्रालङ्कारपरिधानं परस्परं च प्रणामं वेश्माद्यलङ्करणादीनि च कार्याणि कुर्वन्ति । हे सम्प्रतिनृप ! एवं दीपालिपर्वादिवृत्तान्तस्तुभ्यं कथितः अस्मिन्दीपालिपर्वणि समागते चतुर्दश्यमावास्यावासरयुग्मे सोपवासः षोडशप्रहरप्रमाणः पौषधः कार्यो विविधपूजनवस्तुभिश्च श्रुतज्ञानपूजनं 20 कर्तव्यं पञ्चाशत्सहस्रप्रमाणपरिवारपरिवृतकनककमलस्थितं श्रीगौतमस्वामिनं स्मृत्वा परमभक्त्या च तत्सेवने कृते पञ्चाशत्सहस्रगुणपुण्यं प्राप्यते एतत्पर्वाराधनपरा जिनधर्मविधिविधानरता भव्यलोकाः क्रमेण मुक्तिसुखं लभन्ते । सकलधातुषु कनकवन्नक्षत्रगणे शशीव विटपिषु कल्पपादपवद्, देवेषु देवेन्द्रवत् पृथ्वीपेषु षट्खण्डाधिपवदेतत्पर्व पर्वेषु श्रेष्ठतरो यत्र श्रीवीरप्रभुर्मुक्तिगमनं श्रीगौतमगणाधिपस्य 25 च केवलज्ञानप्राप्तिः, तत्पर्वसकलभव्यानां शिवं तनोत्वेवं श्रीमदार्यसुहस्तिसूरिमुखकमलाद् दीपालिकाव्याख्यानं समाकर्ण्य सम्प्रतिभूपतिः श्रीदीपालिका D:\chandan/new/ kalp -2 / pm 5 \ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy