________________
१९०]
[ दीपालिकापर्वसंग्रहः ॥ धर्माभिधो भूप आसीत् तस्य नमुचिनामा प्रधानस्तत्रैकदा श्रीमुनिसुव्रततीर्थपतिशिष्यः श्रीसुव्रतसूरीशः सपरिवारः समागतस्तद्वन्दनार्थं सपरिवारो भूपः समाययौ । तदा जिनधर्मविरुद्धं वदन्तं नमुचिसचिवं बालसाधुनिर्जितवान् प्राप्तपराजयः कोपस्फुरदधरो
मन्त्री विभावर्यां साधुमारणार्थं साधुवसतिसमीपं गतः, ततः शासनदेव्या स्तम्भितः स 5 प्रत्युषे वन्दनार्थं समागच्छता भूपालेन दृष्टः क्षमयित्वा च मोचितस्ततः पृथ्वीपपौर
धिक्कृतोऽतीवलज्जितः स नमुचिः पुराद् बहिनिर्गत्य क्रमेण हस्तिनागपुरं ययौ । तत्र पद्मोत्तरनृपस्य पट्टराज्या ज्वालादेव्या रूपनिर्जितकामदेवौ शौर्यादिगुणलङ्कृतौ विष्णुकुमारमहापद्माभिधौ कुमारौ स्तः वैराग्यवासितहृदये विष्णुकुमारे यौवराज्य
पदमनीच्छति भूपेन महापद्माय दत्तमथैकदा महापद्मन नमुचि सचिवत्वेन स्थापित10 स्तेन कदाचित् सिंहपराक्रम: सिंहस्थनरपतिः पराजितस्तदा तुष्टेन महापद्येन तस्मै वरं
दत्तं, तेन न्यासीकृतमथ कदाचिज्ज्वालादेवी रथयात्राकृते स्वर्णरत्नमयं जैनं रथं निर्मापितवती, तदा तत्सपत्नी लक्ष्मीरपि स्पर्द्धया ब्रह्मरथं निर्मापितवती । रथाकर्षणकृते तयोः कलिः सञ्जाते नृपेण कलहनिवारणकृते द्वावपि रथौ पश्चान्निवारितौ । तदा जनन्यपमानं विलोक्य दुःखितहृदयो महापद्मो देशांतरं प्रययौ । क्रमेण स्वपराक्रम15 साधितषट्खण्ड: परिणीतानेकभूपतिकन्यश्चतुर्दशरत्ननवनिधानप्राप्तिप्रख्यातचक्रित्व:
स पितृकृतप्रवेशमहामहः स्वनगरं प्राविशत्ततः पद्मोत्तरप्रमुखा नृपा महापद्मकुमारस्य चक्रित्वाभिषेकं चक्रुस्ततो विष्णुकुमारेण सार्द्ध पद्मोत्तरनृपेण दीक्षा गृहीता, संयम प्रपाल्य भूपः स्वर्ग जगाम । विष्णुकुमारश्च तीव्रतपस्तपन्वैक्रियलब्ध्यादिलब्धि
मान्संजातः, इतो महापद्मचक्रिणा प्रोतुङ्गशिखरैर्जिनप्रासादैः पृथ्वी सालङ्कारा कृता, 20 स्वमातुश्च कनकरत्नर्निमितजिनरथैः शासनप्रभावनापूर्वकं रथयात्रामनोरथः पूर्णः
कृतोऽथाऽन्यदा नमुचिना न्यासीकृतवरेण यज्ञार्थं राज्यं याचितं चक्री तस्मै राज्यं दत्त्वा स्वयमन्तःपुरे न्यवसत् । तस्मिन् काले वर्षाचातुर्मास्यभिग्रहयुताः सपरिवारा श्रीसुव्रताचार्यास्तत्र स्थिता अभवन् । तान् प्रेक्ष्य प्रोल्लसितवैरो नमुचिः सूरिमवोचत्
त्वां विना सकललिङ्गधारिणो भक्तियुक्ता मां समुपस्थिता, अतः साधुभिः सप्तवासरो25 परिष्टान्मत्पृथ्व्यां न स्थातव्यं । यदि कोऽपि स्थास्यति तमहं हनिष्यामि । पश्चात्केनाऽपि मह्यं दूषणं न देयं । तन्निशम्य श्रीसङ्घन सप्रधानेन साधुस्थिरताकृते बहुप्रार्थितोऽपि स न मन्यते । तदा सङ्घप्रार्थितः सुव्रतसूरीश्वरो मेरुगिरिस्थितं लब्धिमन्तं श्रीविष्णुकुमार
D:\chandan/new/kalp-2/pm5\3rd proof