SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ दीपालिकाव्याख्यानम् ॥] [१८९ स्ततस्तन्निशि तीर्थंकररूपभावोद्योते गते द्रव्योद्योतार्थं रत्नदीपान् चक्रुः । पुनर्यस्यां निशि श्रीवीरो मोक्षं गतस्तस्यां विभावर्यां बहुदेवगमनागमनेन प्रभूतोद्योतः समुत्पन्नस्तस्मिन्नवसरे च त्रिदशमुखाद्भगवतो मोक्षगमनं निशम्य विषण्णः श्रीप्रथमगणाधिपश्चिन्तयितुं लग्नो हा भगवता वञ्चितोऽहमन्तसमये मां दूरीकुर्वता भगवता वरं न कृतं, हे प्रभो ! किमेवं भवता ज्ञातं यन्मत्तः केवलज्ञानं प्रार्थयिष्यत्यथवा बालवत्कदाग्रहं कृत्वा वसनाञ्चलं गृहीत्वा मां सार्द्ध नयतेत्यादि कथयिष्यतीति, हे विभो ! मया तवेदृग्लोभित्वं कृपणत्वं च न ज्ञातं, यदि त्वं मह्यं केवलज्ञानमदास्यस्तर्हि तव किमपि न्यूनं नाऽभविष्यत् पुनर्यदि त्वं मां मोक्षे सार्द्धमनेष्यस्तर्हि तत्र किं संकुलत्वमभविष्यत्स्वामिन्नन्तसमये भवत्परमभक्तं परमस्नेहिनं मां दूरीकुर्वता त्वया लोकव्यवहारोऽपि न पालितः, भवादृशामतन्न युक्तं हे विभोऽथ भवदर्शनमपि मह्यं दुर्लभं संजातं । हे प्रभो! 10 वीर वीर इति कस्याऽहं कथयिष्यामि, मां च हे गौतम ! हे गौतम ! इति पुनः पुनः कः कथयिष्यति ? मदीयमन: सन्देहं च को निवारयिष्यति ? हे भगवन्मां वञ्चयित्वा कथं गत इत्यादि विलपत: श्रीगौतमगणधरस्य पुनरिदृग् विचारः समुत्पन्नो-मया मुधैवैतत्प्रलपनादिकं कृतमहं तु रागी स तु वीतरागो मदुपरि रागमकुर्वता तेन भगवता स्वीयं वीतरागत्वं सत्यापितं हे वराकजीव त्वं मधैव मोहं वहसि ! मोहेनाऽस्मिन संसारे त्वया 15 बहुदुःखं प्राप्तमतो मोह त्यजाऽस्मिन् संसारे कोऽपि कस्य नाऽस्तीत्यादिविचारयन् क्षपकश्रेणिमारुह्य मोहनृपं हत्वा केवलज्ञानं समासादितवान् । अथ भगवद्भावोद्योते गते जनैः प्रकाशार्थं तन्निशि रत्नदीपाः कृतास्तेन जनमध्ये दीपालिपर्व प्रसिद्धि प्राप्तं । किं च भगवद्वियोगात् सकलसङ्घो म्लानाननो बभूव । प्रथमगणाधिपकेवलज्ञानप्राप्तितश्च प्रफुल्लवदनः सञ्जातः । स्वर्गपत्यादिदेवैर्भगवनिर्वाणमहोत्सवं विधाय श्रीगौतम- 20 स्वामिकेवलमहोत्सवः प्रतिपत्प्रभाते चक्रे । तदा प्रभृति प्रथमगणधरप्रोक्तसूरिमन्त्रसमाराधकाचार्यादयो मुनीन्द्रा अस्मिन् वासरे चन्दनादिपूजनवस्तुभिः स्थापनाचार्यपूजां कारयन्ति । तथा भगवनिर्वाणदुःखितस्यऽभुञ्जानस्य नन्दिवर्द्धनभूपस्य द्वितीयादिने स्वस्त्रा सुदर्शनया प्रसह्य भोजनं कारितं तस्माल्लोके भ्रातृद्वितीया प्रसिद्धिं गता । इतिदीपालिपर्वव्याख्यां श्रुत्वा सम्प्रतिधरापालः पुनरुवाच 25 ___ भगवन्नस्मिन्प्रतिपद्वासरे लोका नूतनवसनमिष्टान्नफलादिभोगं वेश्माद्यलङ्करणं परस्परप्रणामं च कथं कुर्वन्ति तदा सूरिः प्रोवाच-पृथ्वीप ! श्रुणु-उज्जयिन्यां पुर्यां D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy