________________
१८८]
[ दीपालिकापर्वसंग्रहः ॥ सुन्दरबाहुः, महाबाहुः, अतिबलः, महाबलः, बलः, द्विपृष्ठः, त्रिपृष्ठश्चेति । अथ प्रतिवासुदेवनामानि प्रोच्यन्ते-तिलकः, लोहजङ्घः, वज्रजङ्घः, केशरी, बली, प्रह्लादः, अपराजितः, भीमः, सुग्रीवश्चेति । अथ बलदेवनामानि कथ्यन्ते-जयन्तः, व्याजितः, धर्मः, सुप्रभः, सुदर्शनः, आनन्दः, नन्दनः, पद्मः, सङ्कर्षणश्चेति त्रिषष्टिशलाकापुरुषा भविष्यन्ति, तेषामेकषष्टिशलाकाः पुरुषास्तृतीयारके भविष्यन्ति, चतुर्थारक एकस्तीर्थपतिरेकश्च चक्रवर्ती भविष्यति, ततश्चतुर्थारके कल्पपादपा भविष्यन्ति ततः प्रभृत्यष्टादशकोटाकोटिसागरोपमकालप्रमाणं निरन्तरं युग्मिव्यवहार: प्रवर्ण्यति, ततः पुनः क्रमेण ऋषभादिजिनसदृशा अवसर्पिणीकालचतुर्विंशतिर्जिना
भविष्यन्त्येवमुत्सर्पिण्यवसर्पिण्योरेककालचक्रं भवत्येवंविधान्यनन्तानि काल10 चक्राण्यतीतकाले गतानि भविष्यत्काले च गमिष्यन्त्येवं प्रोच्य भगवान् वर्धमानस्वामी
देवशर्मविप्रप्रतिबोधार्थ गौतमं समीपग्रामं प्रहितवान् , ततस्त्रिंशद्वर्षगृहवासोषितः सार्द्धद्वादशवर्षछद्मस्थावस्थः स्त्रिंशत्संवत्सरकेवलिपर्यायो भगवान् कार्तिकमासामावास्यानिशि चन्द्रवर्षे प्रीतिवर्धनमासे नन्दिवर्धनपक्ष उपशमदिने देवानन्दाभिधनिशि सर्वार्थसिद्धमुहूर्ते नागकरणे स्वातिनक्षत्रे रात्रिपश्चिमयामाः स्वनिर्वाणार्थं 15 पद्मासनासीनोऽस्थात् । ततश्चलितसिंहासनो देवेन्द्रस्तत्र समागत्य साश्रुनयनः करौ
योजयित्वा भगवन्तमुवाच-भगवान् ! त्वदीयजन्मनक्षत्रं द्विसहस्रवर्षस्थितिको भस्मग्रहोऽधुना समागतोऽस्ति, तद् हे दयासागर ! क्षणं स्थित्वा पश्चान्मोक्षं याहि यतो जिनशासनपूजाप्रभावादिनाशकृत् स त्वदीयदृष्टिसामर्थ्यहतः सन् मोघोदयो भविष्यति ।
ततः स्वामी प्रोवाच हे वासव ! आयुर्वृद्धिं कर्तुं जिनेश्वरा अपि न समर्थाः, प्राक् कोऽपि 20 जीवितवृद्धिं कर्तुं समर्थो न बभूव, सम्प्रति कोऽपि नास्ति, भविष्यत्काले कोऽपि न
भविष्यति, नाऽभाव्यं क्वचिद् भवति न च भाविनो नाशोऽस्तीति प्रोच्य पञ्चपञ्चाशत्पुण्यफलविपाकानि पञ्चपञ्चाशच्च पापफलविपाकान्यध्ययनानि षट्त्रिंशतं चाऽपृष्टव्याकरणानि(उत्तराध्ययनसूत्राध्ययनानि) कथयित्वा प्रधानाख्यमध्ययनं स्मरन्
षष्ठतपाः प्रभुः शैलेशीकरणं विधाय पञ्चहस्वाऽक्षरोच्चारणमात्रकालेन योगनिरोधं कृत्वा 25 मोक्षमगात् । तस्मिन् कालेऽनुद्धरिकुन्थुजातिर्बहु समुत्पन्ना ततः संयमं दुराराध्यं विज्ञाय
बहुभिर्मुनिभिरनशनं कृतं, पुनस्तस्मिन्नमावास्यादिवसे काशी-कोशलदेशस्वामिनो नवमल्लकिनवलेच्छकिजातीया अष्टादशगणराजानः सोपवासं पौषधं कृतवन्त
D:\chandan/new/kalp-2/pm5\3rd proof