________________
१७०]
[ दीपालिकापर्वसंग्रहः ॥ द्वितीयादिने सुदर्शना भगिनी शोकदूरीकरणा) नन्दिवर्धनं स्वगृहे भोजनं कारयति, तस्माद् एषा द्वितीया 'भाईबीज' इति प्रसिद्धि प्राप्ता । प्रथमं लोकै रत्नमया दीपा: कृताः पश्चाल्लोकै रूप्यमयाः कृताः । अथ पञ्चमकालप्रभावतो मृत्तिकामया दीपाः कुर्वन्ति । एवमार्य-सुहस्तिसूरिर्वक्ति-हे सम्प्रते ! इदं दीपमालिकापर्व सर्वेषामुत्तमं कथितम् , यथा वृक्षाणां मध्ये कल्पवृक्षः, देवानां मध्ये इन्द्रः, राज्ञां मध्ये चक्रवर्ती, नक्षत्राणां मध्ये चन्द्रमाः, तेजस्विनां मध्ये सूर्यः, सर्वधातूनां मध्ये सुवर्णम् , काष्ठमध्ये चन्दनम् , वनमध्ये नन्दनवनं तथा सर्वपर्वणां मध्ये दीपमालिकापर्व । अस्मिन् दिने श्रीवीर-प्रभुर्मुक्ति गतः, पुनः श्रीगौतमस्य केवलज्ञानमुत्पन्नम् अतो हे राजन् ! इदं दीपमालिकापर्व सिद्धिदायकं भवतु ।
षण्नन्दवसुचन्द्राब्दे (१८९६), ज्येष्ठमासे सिते दले । चन्द्रघस्रे त्रयोदश्यां, साध्ययोगे हितावहे ॥१॥ दीपालिपर्वणो व्याख्या, गद्यबन्धेन निर्मिता । अपशब्दादिदोषश्चेत् , शोधनीयः सदा बुधैः ॥२॥ स्वच्छे खरतरगच्छे, श्रीसौभाग्यगणाधिपे । धर्मराज्यं कलावर्ये, प्रकुर्वति सुविस्तरे ॥३॥ वाचनाचार्यवर्यस्य, रामचन्द्रगणेच्दा । शिष्येणाऽऽजिमगजे च, चतुर्मासीस्थितेन वै ॥४॥ पाठकोमेदचन्द्रेण, रायमल्लकवेर्मुदा । पठनार्थमिदं रम्यं, कृतं शुभतराशया ॥५॥ युग्मम् ।
इति दीपमालिकाव्याख्यानं सम्पूर्णम् ॥
15
D:\chandan/new/kalp-2/pm513rd proof