________________
दीपमालिकाव्याख्यानम् ॥]
[१६९ रत्नान्यानाय्य द्रव्योद्योतः कृतः, पौषधः पारितः, यद्रात्रौ तीर्थङ्करो मुक्ति गतस्तद्रात्रौ देवानां गमनागमनेन महानुद्योतः सञ्जातः, अस्मिन्नवसरे देवानां मुखाद् वीरप्रभोर्मोक्षगमनं श्रुत्वा श्रीगौतमस्वामी मनसि चिन्तितवान्-"अहो ! भगवता मत्तश्छलं कृतं स्वस्य मुक्ति ज्ञात्वा अहं दूरीकृतः, ज्ञातं भगवता मम पार्वे केवलज्ञानं मार्गयिष्यति, बालवत् कदाग्रह करिष्यति, वस्त्राञ्चलं गृहीत्वा स्थास्यति, हे स्वामिन् ! मया ईदृग् लोभी त्वं न ज्ञात:, 5 केवलज्ञाने दत्ते तु भवतां किमपि न न्यूनमभविष्यत् , हे स्वामिन् ! तवाहं परमसेवकोऽभूवम् , मां निराशं त्यक्त्वा गतः, हे भगवन् ! महतामेषा वार्ता न युक्ता, हे प्रभो ! बलाद् भवतोऽहं केवलज्ञानं नालप्स्यम् भवता दत्तमेव केवलज्ञानमङ्ग्यकरिष्यम् , तदथापि हे स्वामिन् ! अस्मिन्नवसरे अन्तसमये स्वसमीपे रक्षणं युक्तमभूद् , अस्मिन्नवसरे मम प्रेषणं तव न युक्तम् , पुनर्हे प्रभो ! मम केवलज्ञानस्य तृष्णा नासीत् , 10 भवतां दर्शनस्य तृष्णा जाताऽभूत् , अधुना तव दर्शनमपि मम दूरीभूतम् , हे स्वामिन् ! अथाहं कस्य वीर ! इति कथयिष्यामि, मम मन:संदेह: कस्य समीपे पृच्छाविषये करिष्यामि, को मम सन्देहं भक्ष्यति, हे स्वामिन् ! पुनर्मम हे गौतम ! हे गौतम ! इति कः कथयिष्यति' ? एवं विलापं कुर्वन् मनसि विचारयति-रे जीव ! वराक! त्वं ग्रथिलो जातः, स तु नीरागी त्वं तु सरागी, वीतरागेण रागकरणं न युक्तम् , 15 एकाङ्गिप्रीतिकरणे दीपे पतङ्गवद द:खी भविष्यसि, यस्य नाम वीतरागः स कस्मिन रागं करोति, स भगवान् स्वस्य वीतरागं हि नाम सत्यं कृतवान् , अहमज्ञासिषं भगवान् मम नाम पुनः पुनः ब्रूते तहि ममोपरि रागं रक्षति, परमाश्विनमेघाडम्बरवद् अन्तं दत्त्वा गतः स क्व अहं क्व कस्य कोऽपि नास्ति, एवं मोहनीयं निराकृत्य क्षीणमोहं गुणस्थानकं गत्वा तत्कालमेव श्रीगौतमस्य केवलज्ञानमुत्पन्नम् । अथ यद्रात्रौ प्रभुर्मुक्ति गतः तद्रात्रौ 20 भावोद्योतो गतः, ततो लोकैरुद्योतकरणार्थं स्वस्वगृहे रत्नमयी दीपमालिका कृता, तद्दिनाद् लोकमध्ये दीपमालिकापर्वणः प्रसिद्धिर्जाता । अथ यद्रात्रौ वीरप्रभुर्मुक्ति गतः, तदा समस्तसङ्घ उद्विग्नः स्थितः, सङ्घस्य मुखाब्जे म्लानतां गतम् , तस्मिन् समये गौतमस्वामिनः केवलज्ञानमुत्पन्नं तदा समस्तोऽपि सङ्घो हृष्टो जातः । इन्द्रः प्रभोनिर्वाणोत्सवं कृत्वा प्रभोर्देहसंस्कारं करोति, ततः केचिद् देवाः प्रभोर्दष्ट्रां लात्वा 25 गच्छन्ति, केचिद् देवा दन्तान् गृह्णन्ति, केचिद् भस्म गृह्णन्ति, शेषं क्षीरसमुद्रे प्रवाहयन्ति, पश्चात् प्रात:काले गौतमस्वामिनः केवलज्ञानमहोत्सवं कृत्वा सर्वे देवाः सम्भूय नन्दीश्वरद्वीपेऽष्टाह्निकं महोत्सवं कृत्वा स्वस्मिन् स्वस्मिन् स्थाने गच्छन्ति । अथ
D:\chandan/new/kalp-2/pm5\3rd proof