________________
१६८]
[ दीपालिकापर्वसंग्रहः ॥ वर्षाणि यावत् केवलिपर्याये स्थितः, एवं द्वासप्ततिर्वर्षाणि आयुः प्रपाल्य कार्तिकाऽमावास्यानिशायाः पश्चिमे क्षणे स्वातिनक्षत्रे, द्वितीये चन्द्रसंवत्सरे, प्रीतिवर्धनमासे, नन्दिवर्धनपक्षे, उपशमदिने, देवानन्दानाम्न्यां रात्रौ, सर्वार्थसिद्धमुहूर्ते, नागे करणे,
पद्मासने स्थिते तुर्यारकान्ते एतत्समये इन्द्रासनं चकम्पे, अवधिज्ञानेन हरिः 5 प्रभोर्निर्वाणकल्याणसमयं ज्ञात्वा आगच्छति, अत्यन्तमश्रुपूर्णाक्षो विषण्णश्च सन् हस्तौ संयोज्य वक्ति
गर्भे जन्मनि दीक्षायां, केवले च तव प्रभो ! । हस्तोत्तरं क्षणेऽधुना, तद्गन्ता भस्मको ग्रहः ॥१॥
अतो हे स्वामिन् ! करुणानिधान ! एकक्षणमात्रमायुर्वृद्धिं स्वस्य कुरु, किं 10 कारणम् ? भवतो जन्मराशेरुपरि भस्मग्रह आगतोऽस्ति स द्विसहस्रवर्षं यावत्
स्थास्यति, अतो जिनशासनस्य पूजा प्रभावना मन्दा भविष्यति, तेन हेतुना आयुर्दीर्घ कुरुष्व, भवतो दृष्टिपाततस्तस्य तेजो निष्फलं यास्यति, तदा भगवान् वक्ति-हे इन्द्र! एषा वार्ता कदाऽपि नाऽभूत् , न भवति, न चापि भविष्यति, यदायुर्दीर्घतरं भवति ।
पुनर्भाविपदार्थस्य नाशो नास्ति, तदुत्तीर्णे तु देवा अपि दर्शनं दास्यन्ति, विद्यामन्त्राणि 15 चाल्पेन जापेन प्रभावं दर्शयिष्यन्ति, जातिस्मरणादिभावाः किञ्चित् प्रकटयिष्यन्ति, तदनन्तरमेकोनविंशतिसहस्रवर्षं यावद् जिनधर्मो वर्तिष्यति, दुःषमकालपर्यन्तम् , एवं कथयित्वा स्थितः, स्वस्य निर्वाणं समीपं ज्ञात्वा पुण्यफलविपाकानि पञ्चपञ्चाशदध्ययनानि तथा पापफलविपाकानि पञ्चपञ्चाशदध्ययनानि च जगाद, तथा षट्त्रिंशद
पृष्टव्याकरणानि [उत्तराध्ययनसूत्राऽध्ययनानि] चाभिधाय प्रधानं नामाध्ययनं 20 [मरुदेवाऽध्ययनं] जगद्गुरुरकथयत् , पुनः स्वामिनो मोक्षं समीपे विज्ञाय आसनप्रकम्पतस्तत्र सुराऽसुरेन्द्राः सपरिच्छदाः सर्वेऽपि ईयुः ।। अथ प्रभुः शैलेशीकरणं कृत्वा पञ्चह्रस्वाक्षरोच्चारमितकालेन तर्येण ध्यानेन एरण्डफलवद बन्धाभावाद ऊर्ध्वगतिः सन यथास्वभावऋजुगत्या मोक्षमुपाययौ । तस्मिन् समयेऽनुद्धरिककुन्थुराशिः समुत्पन्ना, तदा बहुसाधुभिर्विचारितम्-'अद्यदिनादारभ्य संयमो दुराराध्यो भविष्यति' इति 25 ज्ञात्वाऽनशनं कृतम् , तस्मिन दिने नवमल्लकि-नवलेच्छकिजातीयाः काशी
कोशलदेशपतयोऽष्टादश गणराजानः अमावास्यादिने उपवाससहिताः पौषधव्रतमङ्गीकृतवन्तः तद्रात्रौ भावोद्योततीर्थङ्कररहितं दृष्ट्वा तै राजाभिः स्वकीयगृहाद्
D:\chandan/new/kalp-2/pm513rd proof