________________
दीपमालिकाव्याख्यानम् ॥]
[१६७ नन्दमित्रः २, सुन्दरबाहुः ३, महाबाहुः ४, अतिबलः ५, महाबलः ६, बलः ७, द्विपृष्ठः ८, त्रिपृष्ठः ९, इत्यात्मकाः । अथ प्रतिवासुदेवा उच्यन्ते-तिलकः १, लोहजङ्घः २, वज्रजङ्घ ३, केशरी ४, बली ५, प्रह्लादः ६, अपराजितः ७, भीमः ८, सुग्रीवः ९, इत्यात्मकाः । अथ बलदेवा उच्यन्ते-जयः १, विजयः २, भद्रः ३, सुप्रभः ४, सुदर्शनः ५, नन्दः ६, नन्दनः ७, पद्मः ८, सङ्कर्षणः ९, इत्यात्मकाः । एवमेते 5 त्रिषष्टिशलाका:* पुरुषा भविष्यन्ति, तेषां मध्ये एकषष्टिशलाकाः पुरुषास्तृतीयारके भविष्यन्ति, एकस्तीर्थङ्करः, एकश्चक्रवर्ती, एवं द्वौ चतुर्थारके भविष्यतः, द्वयोश्चतुरशीतिपूर्वलक्षवर्षायुर्भविष्यति, ततः कल्पवृक्षोत्पत्तिर्भविष्यति सर्वे युगलिका भविष्यन्ति । पाश्चात्यचतुर्विंशतितमजिनस्याग्रतनप्रथमजिनस्याष्टादशकोटाकोटिसागरोपमानामन्तरं भविष्यति । उत्सर्पिणी, अवसर्पिणीकाले एकत्रीकृते एकं कालचक्रं 10 भवति, तानि कालचक्राणि अनन्तानि गतानि, पुनरस्मिन् भरतक्षेत्रे अग्रेऽनन्तानि कालचक्राणि भविष्यन्ति, एवं श्रीवर्धमानः प्रभुर्गौतमस्य कालस्वरूपं निरूप्य समवसरणाद् निर्ययौ, हस्तिपालनरेन्द्रस्य शुल्कशालायां च जगाम । स्वामी तद्दिनयामिन्याम् आत्मनो मोक्षं विदित्वा दध्यौ-अहो ! गौतमस्य मयि स्नेहोऽधिकः, य एवास्य महात्मनः केवलज्ञानान्तरायः, स छेद्य इति विज्ञाय गौतममिति जगाद- 15 अपरस्मिन् ग्रामे देवशर्मा द्विजोऽस्ति, स त्वया प्रतिबोधं प्राप्स्यति, तस्मात् तत्र हे गौतम ! त्वं गच्छ । हे स्वामिन् ! आदेशः प्रमाणमित्युक्त्वा प्रणम्य च गौतमस्तत्र गच्छति । अथ प्रभोः परिवारं वदति-स्वहस्तदीक्षिताः साधवश्चतुर्दशसहस्र(१४०००)प्रमाणा अभूवन् , षट्त्रिंशत्सहस्र(३६०००)प्रमाणाः साध्व्यश्च सञ्जाताः, एकोनषष्टिसहस्राधिकलक्ष(१५९०००)प्रमाणाः श्राद्धाश्च सञ्जाताः, द्विगुणाः (३१८०००)- 20 श्राविका अभूवन् , चतुर्दशाधिकत्रिशत(३१४)प्रमाणाः चतुर्दश पूर्वधारिणो जाताः, त्रयोदशशत(१३००)प्रमाणा अवधिज्ञानिनो जाताः, सप्तशत(७००)वैक्रियलब्धिधारिणोमुनयः सञ्जाताः, सप्तशत(७००)केवलिनः सञ्जाताः, पञ्चशत(५००)विपुलमतयो सञ्जाताः, चतुःशत(४००)मिता वादिनः सञ्जाताः, अष्टशत(८००)मिता अनुत्तरवासिनः । एवं समस्तसाधुसाध्वीसहितः श्रीवीरप्रभुः षष्ठतपोयुक्तः त्रिंशद्वर्षाणि 25 गृहवासे तस्थौ, सार्धद्वादशवर्षाणि पक्षाधिकानि छद्मस्थावस्थायां स्थितः, त्रिंशद्
* प्रत्यन्तरे त्रिषष्ठिशलाकाः पुरुषा नामान्तरेण अपि दृश्यन्ते तत्त्वं तु ज्ञानिनो विदन्ति ।
D:\chandan/new/kalp-2/pm5\3rd proof