SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १६६ ] [ दीपालिकापर्वसंग्रहः ॥ पुरादीनि च निवेशयिष्यति, राजा विमलवाहनो गोऽश्वादिसंग्रहं करिष्यति, शिल्पानि व्यवहारं लिपिर्गणितानि च व्यञ्जयिष्यति, दुग्धदध्यादौ शस्ये ज्वलने चोत्पन्ने सति हितकामी राजा प्रजानां रन्धनाद्युपदेशं दास्यति एतत्सर्वं द्वितीयारके भविष्यति । अथ तृतीयारकस्य नवाधिकाशीतिपक्षे गते सति द्वारपुरनगरे समुचिराज्ञो भद्रायां महादेव्यां 5 चतुर्दशस्वप्नसूचितो नन्दनः श्रेणिकजीव आदितीर्थकृत् पद्मनाभाभिधो जन्मादिना महावीरतुल्यो भविष्यति, कथम्भूतः पद्मनाभः ? सप्तहस्तशरीरोन्नतः काञ्चनवर्णकायः सिंहलाञ्छनो द्वासप्ततिवर्षायुः प्रथमतीर्थङ्करो भविष्यति, अतः परं पूर्ववत् प्रातिलोम्येन पूर्वार्हत्समा अमी सर्वे क्रमाद् जिनेश्वरा भविष्यन्ति, तत्र श्रेणिकराज्ञो जीवः पद्मनाभो जिनेश्वरः १, श्रीमहावीरस्वामिनः पितृव्यः सुपार्श्वजीवः सूरदेवो 10 द्वितीयः जिनेश्वरः २, तृतीयो कोणिकनृपपुत्र उदायिनो जीवः सुपार्श्वः ३, पोटिलाऽणगारस्य जीवः चतुर्थः स्वयम्प्रभः ४, दृढायुश्रवकस्य जीवः पञ्चमः सर्वानुभूतिः ५, कार्तिकस्य षष्टोऽर्हन् देवश्रुताभिधः ६, सप्तमो संवरश्रावकस्य जीव उदयाह्वयः ७, अष्टमः आनन्दस्य जीव: पेढाल इति नामा ८, नवम सुनन्दस्य जीवः पोट्टिला - भिधः ९, दशमो शतकस्य जीवः शतकीर्तिनामा जिनेश्वरः १०, देवकीराज्ञीजीवः 15 एकादशः सुव्रताभिधो जिनो भविष्यति ११, कृष्णवासुदेवस्य जीवः अममाख्योऽर्हन् द्वादशो भविष्यति १२, सत्यकीविद्याधरस्य जीवोऽर्हन् निष्कषायः त्रयोदशः १३, बलभद्रस्य जीवो निष्पुलाकश्चतुर्दशो भविष्यति १४, रोहिणीजीवो निर्ममः पञ्चदशो जिन : १५, सुलसा श्राविकाया जीवश्चित्रगुप्तो जिनः षोडशो भविष्यति १६, रेवतीश्राविकाया जीवः समाधिनामा सप्तदशो जिनो भविष्यति १७, शताली20 श्रावकस्य जीवः अष्टादशोऽर्हन् संवराभिधः १८, द्वीपायनजीवः एकोनविंशोऽर्हन् यशोधरः १९, कषायस्य जीवो विजयो विंशतितमः २०, एकविंशो जिनो मल्लो यः पुरा नारदोऽ ऽभवत् २१, अम्बडस्य जीवो द्वाविंशो देवतीर्थङ्करः २२, त्रयोविंशः श्राद्धरमस्य जीवोऽनन्तवीर्यो भविष्यति २३, स्वातिजीवश्चतुर्विंशो भद्रकृन्नाम तीर्थङ्करो भविष्यति २४, एते आगामिकाले चतुर्विंशति तीर्थङ्करा भविष्यन्ति, एषामायुः 25 कल्याणकान्तर–लञ्छन- वर्णाः पश्चानुपूर्व्या भविष्यन्ति, वर्तमानजिनवत् । अथ भाविनश्चक्रवर्तिनः कथ्यन्ते - दीर्घदन्तः १, गूढदन्तः २, शुद्धदन्तः ३, श्रीचन्द्रः ४, श्रीभूति: ५, श्रीसोमः ६, पद्मः ७, महापद्मः ८, कुसुमः ९, विमलः १०, विमलवाहनः ११, रिष्टः इत्यपरनामा भरतो द्वादशः १२ । अथ वासुदेवानाह - नन्दी १, D:\chandan/new/ kalp-2 / pm5\ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy