________________
दीपमालिकाव्याख्यानम् ॥]
[ १६५
भरतभूमिः कदाचिद् धूलिबहुला, कदाचिद् सार्द्रकर्दमा भविष्यति, एकहस्तमानाः, कठोराङ्गाः, दुष्टवर्णाः निष्ठुरवचनाः, रोगार्ता:, क्रोधिन:, घण्टावच्चिपटनासिकाः, निर्लज्जाः, वस्त्ररहिता नराः, स्त्रियश्च भविष्यन्ति, नराणां विंशतिवर्षायुः स्त्रीणां च षोडशवर्षायुर्भविष्यति, षड्वर्षा स्त्री गर्भान् धारयिष्यति दुष्प्रसवा च । स्थविरा तु षोडशाब्दा बहुसूतेन मातृका भविष्यति । रथचक्रयोर्मध्ये यत्प्रमाणा धरित्री भवति 5 तत्प्रमाणं गङ्गा-सिन्ध्वोः पानीयं वहिष्यति, पुनर्वैताढ्यगिरौ द्वासप्ततिनद्युभयतटभूमिषु बिलानि सन्ति तेषु मनुष्या निवासं करिष्यन्ति, नदीनां कूले नव नव बिलानि सन्ति तत्र तिर्यञ्चो मनुष्याश्च बीजमात्रतया भविष्यन्ति मांसाहारनिरताः, निर्घृणाः, निर्विवेकाः तस्मिन् काले मनुष्यादयः समस्ता भविष्यन्ति, बहुमत्स्यकच्छपादिभिर्व्याप्ते गङ्गा-सिन्धू भविष्यतः, पुनर्नराद्यास्तत्रैत्य निशायां मत्स्यादीनि 10 कृष्ट्वा स्थले मोक्ष्यन्ति, दिवा सूर्यत्विषा पक्वानि मत्स्यादीनि निशान्तरे खादिष्यन्ति, एवं निरन्तरं भोक्ष्यन्ति, यस्मात् तस्मिन् काले दध्यादिकं नास्ति, न च पुष्पफलादिकं, न चान्नं, न च शय्यासनादिकम्, एवं भरतैरवतेषु दशस्वपि दुःषमकालो भविष्यति ।
अथाग्रे उत्सर्पिण्यां षष्ठारकसदृशः प्रथमारको भविष्यति, उत्सर्पिण्यामेकविंशतिसहस्रवर्षप्रमाणे प्रथमारके गते द्वितीयारकोऽपि एतत्प्रमाणो भविष्यति । अथ 15 द्वितीयारकप्रान्ते पुष्करावर्तमेघः सप्ताहोरात्रं यावद् वर्षिष्यति तस्मात् पृथिवीतापो यास्यति, द्वितीयः क्षीरोदनामा मेघो वर्षिष्यति तस्माद् धान्यनिष्पत्तेर्योग्या भविष्यति, तृतीयो घृतोदकमेघो वर्षिष्यति तस्मात् पृथिवी सच्चिक्कणा भविष्यति, चतुर्थः शुद्धोदकमेघो वर्षिष्यति, तस्मादौषधिर्निष्पत्तिं यास्यति, यदा पञ्चमो रसोदकमेघो वर्षिष्यति, तस्मात् पृथिव्यां रसोत्पत्तिर्भविष्यति । एवं पञ्चत्रिंशतिदिनं यावद् मेघो 20 वर्षिष्यति, तदा वृक्षौषधिलताधान्यप्रमुखाः स्वयं निष्पत्तिं यास्यन्ति । तान् दृष्ट्वा मनुष्या बिलेभ्यो बहिर्निः सरिष्यन्ति, भरतपृथिवी पुष्पफलादियुक्ताभूत्, तदा फलादीनि भक्षिष्यन्ति, अथः परं मासं न भक्ष्यम् । यथा यथा काल एष्यति तथा तथा रूपसंहननायूंषि धान्यादीनि च भारते वर्धिष्यन्ति, सुखा वाताः ऋतवः सलिलाश्च भविष्यन्ति, तिर्यञ्चो मनुष्याश्च गतरोगाः क्रमेण भविष्यन्ति, द्वितीयारकप्रान्ते मध्ये देशे 25 भरतावन्यां सप्त कुलकरा भविष्यन्ति तत्र प्रथमो विमलवाहनः, द्वितीयः सुदामः, तृतीयः सङ्गमः, चतुर्थः सुपार्श्वः, पञ्चमो दत्तः, षष्ठः सुमुखः, सप्तमः समुचिः, एते सप्त कुलकरा भविष्यन्ति । तत्र जातिस्मृतिपूर्वं विमलवाहनो राज्यहेतवे ग्रामान्,
D:\chandan/new/kalp-2 / pm5\ 3rd proof