SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १६४] [ दीपालिकापर्वसंग्रहः ॥ एतावत्यः श्राविका भविष्यन्ति, एतावत् पञ्चमारके सङ्घस्य प्रमाणम् । अत्र केचिदाचार्या एवं वदन्ति - पञ्चभरतैरवतयोः सङ्घस्य प्रमाणं न त्वेकस्य, केचिदाचार्याः पञ्चभरतस्य सङ्घप्रमाणं वदन्ति, केचित् पुनः एकभरते सङ्घप्रमाणं वदन्ति, तत्त्वं तु ज्ञानिगम्यम् । पुनः पञ्चमारकप्रान्ते द्विहस्तशरीरप्रमाणाः स्वर्गात् च्युत्वा 5 गृहवासे द्वादश वर्षाणि श्रामण्ये चत्वारि वर्षाणि आचार्यपद चत्वारि वर्षाणि स्थित्वा विंशतिवर्षायुः प्रपाल्य दुप्पसहसूरयः सौधर्मस्वर्गे गमिष्यन्ति, कथम्भूता दुप्पसहसूरयः ? दशवैकालिकजितकल्पावश्यकाऽनुयोगद्वारनन्दीसूत्रधारका इन्द्रादिभिर्नताः । षष्ठोग्रतपोधारकाः प्रान्ते कृताष्टमतपसः एकसागरोपमायुः स्वर्गे भुङ्क्त्वा ततो भरतक्षेत्रे जन्मावाप्य मुक्ति यास्यन्ति । वीसहजार नवसौ वर्ष, तीनमास, पांच 10 दिन, पांच पहोर, एक घडी, दोपल, ४१ अक्षरोच्चार एतावत्कालप्रमाणो जिनधर्मो भविष्यति, ९० वर्ष, मास ८, दिन २३, प्रहर २, घटी ५॥, पलानि ५७, १९ अक्षरोच्चार एतावन्मध्ये जिनधर्मः स्तोकः स्थास्यति, आरकस्य प्रान्ते जिनधर्मो विच्छेदं यास्यति, श्रुत-सूरि-सङ्घ-धर्मः पूर्वाह्णे विच्छेदं यास्यति, नृपो विमलवाहनः सुमुखमन्त्री च मध्याह्ने विच्छेदं यास्यतः, अग्निः सन्ध्यायां विच्छेदं यास्यति, पुनः 15 पञ्चमारकान्ते दुप्पसहाख्यः सूरिः, फल्गुश्रीः साध्वी, नागलः श्रावकः, सत्यश्रीः श्राविका, एतदात्मकश्चतुर्विधसङ्घो भविष्यति, पञ्चमारकस्यार्वाग् धर्मो वर्त्स्यति इत्यनेन धर्मो नास्ति यः पुनर्वदिष्यति स सङ्घतो बहिः कर्तव्यः, एवमेकविंशतिसहस्रप्रमाणः पञ्चमारको भविष्यति । एतत्प्रमाणो षष्ठारकोऽपि भविष्यति । अथ षष्ठरकस्य किञ्चित् स्वरूपं कथ्यते - धर्मतत्त्वं प्रणाशं यास्यति, जनो 20 हाहाभूतो भविष्यति, पशुवद् मातृपित्रादिव्यवस्थावर्जितश्च भविष्यति, बहुधूलिसहिता अतिनिष्ठुरा अनिष्टा वायवो वास्यन्ति, दिशश्च धूम्रं मोक्ष्यन्ति, चन्द्रमा अतिशीतं स्रावयिष्यति, अर्यमा अत्युष्णं तप्स्यति, अतिशीतोष्णव्याप्तो लोकः क्लेशमवाप्स्यति, भस्म-दृषद - ऽग्निकण-क्षार - विष - मल- विद्युन्मयाः सप्त मेघा वर्षिष्यन्ति, एकैकस्य मेघस्य सप्त सप्त दिनानि यावद् वर्षा भविष्यति, यैः कास25 श्वास-शूल-कुष्ठ-जलोदर - ज्वर - शिरोऽर्तिप्रमुखा मनुष्याणां महारोगा भविष्यन्ति, अङ्गारसदृशा भूमिर्भविष्यति, गिरि-नदी- गर्तादिका जलेन समीभविष्यन्ति, जलस्थलचारिणः तिर्यंचो दुःखेन स्थास्यन्ति, क्षेत्र - वनाऽऽ - रामलता - तरु - तृणानि क्षयं यास्यन्ति, वैताढ्य-ऋषभकूट - गङ्गा-सिन्धूर्विमुच्य जलेन सर्वे समा भविष्यन्ति, D:\chandan/new/kalp-2 / pm5\ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy