SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ दीपमालिकाव्याख्यानम् ॥] [ १६३ पार्श्वतस्तव किमपि न मिलिष्यति एषां पार्श्वे किमपि नास्ति पुनर्भिक्षाषष्ठांशमपि तव न दास्यन्ति एषामयं व्यवहारो नास्ति, पुनस्त्वं भिक्षाभागं मार्गयन् लज्जां न यासि एषां साधूनां त्वं त्यागं कुरु, इतरथा तव महत्कष्टमुत्पत्स्यति, एतादृशमिन्द्रवचनं श्रुत्वाऽपि न त्यक्ष्यति ततो भाद्रपदशुक्लाष्टम्यां ज्येष्ठानक्षत्रे इन्द्रो रोषं गतः सन् चपेटाप्रहारात् कल्किनं मारयिष्यति सर्वायुः षडशीति ८६ वर्षं प्रपाल्य नरकं यास्यति, ततोऽर्हद्धर्ममिन्द्रः शिक्षयित्वा दत्तनामानं कल्किनः पुत्रं राज्ये स्थापयिष्यति, गुरुसङ्घयोर्नमस्कारं कारयिष्यति, इन्द्रः स्वस्थाने यास्यति, ततो दत्तराजा पितुः पापफलं ज्ञात्वा पुण्ये तत्परो भविष्यति, निरन्तरं जिनेश्वराणां चैत्यानि कारयित्वा सर्वपृथ्वीं जिनालयैः शोभायमानां करिष्यति, तदा पुनर्जिनधर्ममहिमा प्रचुरो भविष्यति । 5 अथाग्रे पञ्चमकाले चतुर्विधश्रावक-श्राविका - साधु-साध्वीनां संख्या कथ्यते - 10 षोडशसहस्राधिका एकादशलक्षा (१११६०००) राजानः पञ्चमकाले जनमतभक्ता भविष्यन्ति, एकको टिमिता (१०००००००), जिनशासनप्रभावका मन्त्रिणो भविष्यन्ति, पुनः पञ्चमकाले श्रीसुधर्मस्वामिप्रमुखाश्चतुरधिकद्विसहस्रप्रमाणा (२००४), युगप्रधानपदधारका महोपकारिण आचार्या भविष्यन्ति, तत्रापि सुधर्मजम्बूस्वामिनौ तद्भवे एव मुक्ति यास्यतः, शेषाः सर्वे एकावतारिणो भविष्यन्ति । ततो 15 युगप्रधानसदृशा आचार्याः प्राणिनां मोहान्धकारेमार्तण्डसदृशाः षोडशाधिकैकादशलक्षैकादशसहस्रामिता (११११०१६) एतावन्तो अन्येऽपि आचार्याश्चारित्रपालका भविष्यन्ति, पुनः पञ्चमारके तेतीस लाख चालीस हजार चारसौ उन्नीस (३३४०४१९) एतावन्तो मध्यमगुणधारका आचार्या भविष्यन्ति, पुनः पञ्चमारके पञ्चावनकोटि पञ्चावनलक्ष पञ्चावनसहस्र पञ्चशत पचवीस (५५५५५५५२५) अधर्माचार्या 20 भविष्यन्ति, पुनः पञ्चावनलाखकोटि, पञ्चावनहजारकोटि चौवनसौकोटि चउमालीसकोटि एतावन्त उपाध्याया वाचनाचार्या भविष्यन्ति, पुनः सत्तरलाखकोटि नवहजारकोटि एकसौकोटि एकवीसकोटि एकलाख साठहजार एतावन्तः साधवो भविष्यन्ति, पुनः पञ्चमारके दशकोटाकोटि द्वादशशतकोटि बाणवेकोटि बत्तीसलाख निनाणवेहजार एकसौ एतत्प्रमाणाः साध्व्यो भविष्यन्ति, पुनः पञ्चमारके सोलाकोटिलाख तीनकोटी - 25 हजार तीनसौकोडी सत्तरकोडी चौरासीलाख एतावत्प्रमाणाः श्रावकाः भविष्यन्ति, पुनः पञ्चमारके पैंतीसकोडिलाख बाणुहजारकोडि पांचसौकोडि बत्तीसकोडि D:\chandan/new/ kalp -2 / pm 5 \ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy