SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६२] [दीपालिकापर्वसंग्रहः ॥ कदाचिदवसरे साधवो गौचर्यर्थं चतुष्पथमध्ये निसरिष्यन्ति, सा साधून् दृष्ट्वा देवानुभावतः शृङ्गाग्रेण साधूनां मारणार्थमुद्यमवती भविष्यति, तदा गीतार्थाः सर्वे साधव एकत्रीभूय विचारं करिष्यन्ति, अत्र जलोपसर्गः प्रचुरो भविष्यति इति ज्ञात्वा सुविहितक्रियाधारका ये साधवो भविष्यन्ति ते सर्वे विहारं करिष्यन्ति, ये भक्तपानलोलुपा भविष्यन्ति गीतार्थवचनं नाङ्गीकरिष्यन्ति अविवेकिनः सन्तः तत्र स्थास्यन्ति, ततः सप्तदशाहोरात्रं यावत् वर्षा भविष्यति, अत्यन्तवृष्ट्या कल्किनो नरं जलाच्छादितं भविष्यति, गङ्गाजलं नगरेण सह एकत्रीभविष्यति, कल्किनो नगरात् प्रणश्य कुत्रापि उच्चस्थले स्थास्यति, जलोपद्रवनिवर्तनाद् नवीनं नगरं स्थापयिष्यति, जलप्रवाहतो नव नन्दस्य सुवर्णमय्यः डुङ्गरिकाः प्रकटीभविष्यन्ति, ता दृष्ट्वा 10 प्रचुरलोभी भविष्यति, प्रथमं ये मनुष्याः करं न दत्तवन्तस्तेषां मस्तके करं करिष्यति, ये करं दत्तवन्तस्तेषां मस्तके बहुकरं करिष्यति, पुनर्नवीननवीनकरं करिष्यति ततो लोकानां मस्तकेऽसद्भूतानि कलङ्कानि दत्त्वा धनवतां धनं ग्रहीष्यति, अनेकच्छलं कत्वा लोकानां धनापहारं करिष्यति, यदा सर्वे लोका निर्धना भविष्यन्ति रूप्य सुवर्णादि सर्वं धनं नाशं यास्यति, तदा चर्ममयीं मुद्रां प्रवर्तयिष्यति, वैश्यपाखण्डि15 सर्वदर्शनिनां समीपे कल्की करं लास्यति, तस्य राजमध्ये लोकानां गृहे भोजनार्थं धातुमयं भाजनं न स्थास्यति, तदा वृक्षपत्रमध्ये भोजनं करिष्यन्ति, पुनः कल्की राजा मार्गे गच्छतः साधून् दृष्ट्वा लुब्धः सन् भिक्षायाः षष्ठांशं मार्गयिष्यति, तदा सर्वे साधवः एकत्रीभूय कायोत्सर्ग करिष्यन्ति शासनदेवतां चाराधयिष्यन्ति, शासनदेवता प्रकटीभूय साधुभिक्षाषष्ठांशं निवारयिष्यति, पुनर्वेषधारिणो वेषं त्याजयिष्यन्ति 20 एतादृशो महादुरात्मा भविष्यति, पुनः कियति काले गते भिक्षाषष्ठांशस्य स्मरणं करिष्यति, यदा धनार्थमाचार्यादीन् सर्वसाधून् संमेल्य वाटके क्षेप्स्यति रोधयिष्यति, तदा संविज्ञाचार्यप्रमुखाः ससङ्घाः शासनदेवताराधनार्थं कायोत्सर्ग करिष्यन्ति, सङ्घकायोत्सर्गात् शासनदेवता आगमिष्यति युक्तितः कल्किने उपदेशान् दास्यति तथापि स न मानयिष्यति, तस्मिन् समये इन्द्रस्यासनं कम्पयिष्यति तदा स वृद्धब्राह्मणरूपं 25 कृत्वा यत्र कल्की सिंहासनोपरि स्थितस्तत्रागमिष्यति ततः कल्किनं कथयिष्यति अहो राजेन्द्र ! एते निरपराधिनः साधवः किं रुद्धाः एभिस्त-वापराधः कः कृतः ? तदा कल्की तं वदिष्यति-अहो ब्राह्मण ! सर्वदर्शनिभिर्मम करो दत्तः परमेते भिक्षवो भिक्षाषष्ठांशमपि न ददति, ततो मया एते रुद्धाः सन्ति, तत इन्द्रो वदिष्यति-एषां D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy