________________
दीपमालिकाव्याख्यानम् ॥]
[१५९ शान्ति गतवान् राज्ञो मुष्टिमध्ये चागतः, भ्रातरः सर्वेऽपि उत्थिताः, तदा रात्रिसम्बन्धिनी सर्वाऽपि वार्ता युधिष्ठिरेण भ्रातृणामग्रे कथिता, राज्ञा मुष्टिमुद्घाट्य प्रेतः स्ववशवर्तिभूतो दर्शितः, क्षमाप्रभावतोऽयं वशवर्ती जातः, एतादृशा अष्टोत्तरशतदृष्टान्ता लौकिपुराणादावपि कलियुगवर्णने कथिताः । पुनर्हे गौतम ! कलियुगसम्बन्धिनां मानवानां मध्ये लज्जा न भविष्यति, निष्कलङ्ककुलजाताः स्तोका भविष्यन्ति, रम्यवस्तूनां धरित्र्यां 5 हानिर्भविष्यति, लघवः सुताः तरुणाश्च मरणं यास्यन्ति, पुनर्मातरः पितरश्च अतिदीर्घायुषो भविष्यन्ति, ब्राह्मणाः शस्त्रधारका भविष्यन्ति, वेदपाठ-षट्कर्मवजिताश्च भविष्यन्ति, सुता मातापित्रोविनयं न करिष्यन्ति, पुत्रा मातापितृभ्यो दुःखं दास्यन्ति, वध्वः श्वश्रूणां विनयं न करिष्यन्ति, वधूः सपिणीतुल्या भविष्यति, श्वश्रूभिः कार्ये कथिते वधू रोषं कृत्वा सर्पिणीवत् प्रत्युत्तरवचनरूपं डङ्कप्रहारं दास्यति, श्वश्रूश्च 10 कालरात्रीतुल्या वधूं हीलयिष्यति यथा जनानां कालरात्री दुर्लध्या भवति तथा श्वश्रूरपि वधूजनानां ताडनातर्जनादि कुर्वती दुर्लङघ्या ज्ञेया, अपूज्यलोकाः पूजां प्राप्स्यन्ति, अर्चायोग्या गुणवन्तो न पूजां प्राप्स्यन्ति, शिष्या गुरूणां विनयं न करिष्यन्ति, पुनर्गुरवोऽपि शिष्याणां हितशिक्षाधुपदेशं न दास्यन्ति, पुनर्मन्त्रतन्त्रौषधिज्ञानरत्नविद्याधनायु:फलपुष्परसरूपसौभाग्यसंपत्तिसंहननबलयश:कीर्तिगुणशोभादीनि 15 वस्तूनि पञ्चमारके हानि यास्यन्ति, ज्ञानादिधर्मो हीनतां यास्यति, वस्तुमानादि विपरीतं जनाः करिष्यन्ति, धर्मे मूर्खत्वं भविष्यति, देवानां मध्ये देवत्वं न भविष्यति, सतीनां मध्ये सतीत्वं न भविष्यति, निःसङ्गानां मध्ये वैराग्यं न भविष्यति, तपस्विनः स्पृहायै तपस्यां करिष्यन्ति सत्यशौचतपःक्षमादिकानां हानिदिने दिने भविष्यन्ति, धरित्र्यामल्पफलादीनि भविष्यन्ति ।
पुन: प्रभुर्वक्ति-हे गौतम ! सौराष्ट्रगुर्जरदेशस्य समीपे अनुक्रमेण अणहिल्लपाटणपुरे मन्निष्णात् एकोनसप्तत्यधिकषोडशशतवर्षे (१६६९) व्यतिक्रान्ते श्रीकुमारपालराजा भविष्यति, कीदृशः ? चौलुक्यकुलमध्ये चन्द्रसदृशो महाबलवान् अखण्डजिनाज्ञाधारको भविष्यति, पराक्रमेण, दानेन, कीर्तिगुणेन, न्यायेन, विवेकेन, धैर्येण, राज्यलीलया सत्त्वगुणेनाद्वितीयो भविष्यति । उत्तरदिशायां यवनदेशं 25 यावत् , पूर्वदिशि गङ्गापर्यन्तं, दक्षिणदिशि पश्चिमदिशि च समुद्रपर्यन्तं देशान् साधयिष्यति, एकादश शतानि हस्तिनः तस्य भविष्यन्ति, अयुतप्रमाणा रथा भविष्यन्ति, एकादश लक्षाणि तुरङ्गाणां भविष्यन्ति, अष्टादश लक्षाः पदातयो
20
D:\chandan/new/kalp-2/pm5\3rd proof