________________
१६०]
[दीपालिकापर्वसंग्रहः ॥ भविष्यन्ति स श्रीकुमारपालराजा कस्मिंश्चित् समये वज्रशाखायां मुनिचन्द्रकुलोत्पन्नं श्रीहेमचन्द्रसूरिं प्रतिवन्दिष्यति, आचार्यमुखाद् धर्मोपदेशं श्रुत्वा सम्यक्त्वसहितं श्रावकद्वादशव्रतमङ्गीकरिष्यति, देवगुरुप्रणति विना भोजनं न करिष्यति, दृढव्रतपालको, भविष्यति, पृथिवीं जिनप्रसादमण्डितां करिष्यति, एकस्मिन् प्रस्तावे श्रीहेमचार्यमुखात् व्याख्याने श्रीतीर्थानां व्याख्यां श्रोष्यति, तत्र जीवितस्वामिमूर्तेः सम्बन्धं श्रुत्वा वीतभयपत्तनमार्गे दुर्गकारापणे श्रीजिनप्रतिमां मनुष्येभ्यः प्रकटं कारयिष्यति, तां प्रतिमां पत्तने जिनालये स्थापयिष्यति शुभबुद्ध्या मानयिष्यति, ततः प्रतिमार्थं यदुदायिराज्ञा ग्रामादिदत्तमभूत् तत् प्रकटीभविष्यति, तावन्तं ग्रामशासनादिकं
कुमारपालोऽपि दास्यति, सदैवार्चा करिष्यति, सदैव जिनं वन्दिष्यति, स्वदारसंतोषी 10 भविष्यति, वर्षाकालमध्ये त्रिविधं शीलं पालयिष्यति, कदाचिद् मनसः शीलभङ्गो
भविष्यति तर्हि उपवासादि करिष्यति, पुनरष्टादशदेशेऽमारिपटहं दास्यति, वर्षाकाले सेनासमूहं न करिष्यति, जीवरक्षादक्षो भविष्यति, अर्हन्मतभक्तिमान् भविष्यति, शुद्धसम्यक्त्वव्रतधारको भविष्यति, पञ्चमकाले श्रीकुमारपालं विना अन्यः को
भविष्यति ? । पुनर्हे गौतम ! पञ्चमारके कलहकारका भववृद्धिजनका असमाधि15 स्थाना अनिर्वेदकारका एतादृशाः श्रमणाः पञ्चभरतैरवते च भविष्यन्ति, पुनस्ते श्रमणा
मन्त्रतन्त्रयन्त्रादौ नित्यमुद्यमवन्तो भविष्यन्ति, पुनरागमार्थज्ञाता स्तोका एव स्थास्यन्ति, सिद्धान्तशास्त्रस्य कश्चिदेवाभ्यासं करिष्यन्ति, धनलोभार्थं ज्योतिष्कादिकं धारयिष्यति, उपकरणवस्त्रपात्रार्थं वर्षाकाले श्रावकैः सह युद्धं करिष्यति, यथा राजा प्रजापार्वे
कलहं कृत्वा दण्डं लास्यति तथा तेऽपि साधवः श्रावकपार्श्वे धनादिग्रहणं करिष्यन्ति, 20 बहवो मुण्डा अल्पा: श्रमणाश्च भविष्यन्ति, पुनर्हे गौतम ! पञ्चमकाले म्लेच्छराजानो
बलवन्तो भविष्यन्ति, उत्तमराजानो हीनबला भविष्यन्ति, पुनर्हे गौतम ! म्लेच्छकुले पाटलीपुरपत्तने कलङ्की *राजा भविष्यति, पुनः पाटलीनगरस्य रुद्रनाम पुनश्चतुर्मुख इति नाम स्थापयिष्यति । जसनामचाण्डालस्य गृहे भार्या यशोदा तत्कुक्षौ त्रयोदश
मासान् यावद् कल्किगर्भः स्थास्यति, चैत्रशुक्लाष्टम्यां जयश्रीदिवसस्य रात्रिसमये 25 मकरलग्नस्य षष्ठांशे वहमाने भौमवासरे चन्द्रेऽर्कलग्ने स्थिते चन्द्रनामयोगे आगते
* पञ्चमारके धर्मोन्नतिकारका त्रयोविंशतिः उदयाः भविष्यन्ति तेषु च चतुरधिकद्विसहस्रयुगप्रधाना भविष्यन्ति तथा सम्प्रति तृतीयोदयो वर्तते परं च अष्टमोदये श्रीप्रभयुगप्रधानसमये कलङ्गी राजा भविष्यति, इति ज्ञेयम् ।
D:\chandan/new/kalp-2/pm5!3rd proof