________________
१५८]
[दीपालिकापर्वसंग्रहः ॥ समकालं मनुष्या बुडिष्यन्ति । पुनः राजाऽग्रे गतः फलार्थं वृक्षस्य पीडां कुर्वन्तः केचिद् पुरुषा दृष्टा इति व्यतिकरं दृष्ट्वा राजा ब्राह्मणं पृच्छति-एतस्य फलं वद, ब्राह्मणो वक्ति-हे राजन् ! कलियुगे पिता वृक्षतुल्यः पुत्रः फलसदृश:-अयमत्र भावार्थ:-पुत्रफलार्थवृक्षः पिता कष्टं सहिष्यति, पुनः राजाऽग्रे गतः एकस्मिन् स्वर्णकटाहे उत्तमान्नपाचनयोग्ये मांसं पच्यमानं दृष्ट्वा राजा ब्राह्मणं पृच्छति, ब्राह्मणो वदति-हे राजन् ! आत्महितकारिणं कुटुम्बं जनाः त्यक्ष्यन्ति, अन्यलोकार्थं स्वशीर्षं दास्यन्ति, बह्रीं प्रीतिं करिष्यन्ति उत्तमजनसङ्गं न करिष्यन्ति, अग्रे गत्वा सर्पस्य पूजां गरुडस्य चापूजां दृष्ट्वा ब्राह्मणं पृच्छति, विप्रोऽवादीत्-हे राजन् ! दयारहितो
धर्मिजनः सर्पतुल्यः तस्य बहवो लोका आदरं करिष्यन्ति, सत्कारं च करिष्यन्ति, 10 गरुडसदृशा गुणवन्त उत्तममहाधर्मज्ञास्तेषां निन्दां करिष्यन्ति, पुनरग्रे गच्छता वने
एकस्यां शकट्यां हस्तिनौ योजितौ दृष्टौ, एकस्यां शकट्यां गर्दभौ योजितौ दृष्टौ परं हस्तिनौ परस्परममिलितौ चलतः गर्दभौ परस्परं मिलितौ चलतः, एतादृशं विचारं दृष्ट्वा राजा ब्राह्मणं पृच्छति ब्राह्मणो वदति हे राजन् ! कलियुगे हस्तिसदृशा उत्तमकुले
प्रसूता जनाः परस्परं क्लेशं करिष्यन्ति अन्योऽन्यमीऱ्यां च करिष्यन्ति, पुनर्गर्दभसदृशा 15 नीचकुलोत्पन्ना नीतिधारका भविष्यन्ति परस्परं स्नेहवन्तो भविष्यन्ति, प्रायेण
अन्त्यकुलोत्पन्ना धरित्रीपतयो भविष्यन्ति, पुनहँससदृशा उत्तमकुलोत्पन्नाः दासत्वं करिष्यन्ति । अन्यदा पञ्च पाण्डवा अनुक्रमेण वनवासमध्ये स्थिताः सन्तो युधिष्ठिरराज्ञा भीमादीनां चतुर्णां भ्रातृणां चतुर्पु प्रहरेषु रात्रौ यामिकत्वेन रक्षिताः, अथ प्रथमप्रहरे
भीमो जागर्ति चत्वारो भ्रातरः सुप्ताः सन्ति तस्मिन् प्रस्तावे कलिरूपपिशाचस्य वचनं 20 श्रुत्वा भीमः क्रोधभाग् बभूव पिशाचरूपकलेर्मारणार्थं धावितः, कलिना सह भीमो
युद्धमकार्षीत् , क्रोधेन रक्तनेत्रे कृत्वा लीलया प्रेतरूपकलिना बलवान् भीमो निर्जितः, द्वितीयप्रहरे युद्धं कृत्वा कलिनाऽर्जुनोऽपि जितः, तृतीयप्रहरे नकुलोऽपि जितः, चतुर्थप्रहरे सहदेवोऽपि जितः, अथ चत्वारोऽपि भ्रातर: पराजयं प्राप्ताः सन्तः
सुप्ताः सन्ति, अस्मिन्नवसरे पश्चिमरात्रे युधिष्ठिरो जागृतवान् तदा कलिरूपपिशाच 25 आगत्य युधिष्ठिरं वदति, हे राजन् ! भवतः पश्यतो भवद्भातरं मारयिष्यामि, एतादृशं
प्रेतवचनं श्रुत्वा राजा युधिष्ठिरः किञ्चिन्मात्रमपि क्रोधं न कृतवान् , प्रतिवचनमपि न दत्तवान् क्षमां कृत्वा स्थितः, क्षमा कीदृशी ? सर्वकल्याणकारिका सर्वसत्त्वप्रीतिजनिका सर्वधर्मप्रधाना एतादृशी क्षमा राज्ञाङ्गीकृता, तदा राज्ञ उपशमं दृष्ट्वा प्रेत:
D:\chandan/new/kalp-2/pm5\3rd proof