________________
दीपमालिकाव्याख्यानम् ॥]
[१५७ एकस्मिन् दिने स वने गतः, तत्र वने एका बृहती गौः लघुगोस्तनपानं कुर्वती दृष्टा, स्वसमीपे ब्राह्मणमिति पप्रच्छ-इदमाश्चर्यं विपरीतं पश्य, तदा ब्राह्मणो वदति-हे राजन् ! आगामिकाले कलियुगमध्ये हीनसत्त्वा मनुष्या भविष्यन्ति, लक्ष्मी विना दुःखिनौ सन्तौ मातापितरौ कस्मैचित् धनवते कन्यां दत्त्वा धनं लात्वा ततः पश्चात् स्वनिहिं करिष्यतः, एतादृशमुपनयं श्रुत्वा पुनः राजा युधिष्ठिरोऽग्रे गतः, पुरतः 5 समानश्रेणिबद्धजलभृतानि त्रीणि सरांसि दृष्टानि, तत्र प्रथमैकसरसो जलमुच्छलन् मध्यस्थं तटाकं त्यक्त्वा तृतीयसरसि पतति, मध्यस्थसरसि एकबिन्दुमात्रमपि न पतति, एतादृशमाश्चर्यं दृष्ट्वा राजा ब्राह्मणं पृच्छति इदं किं कारणम् ? ब्राह्मणो वक्तिहे राजन् ! त्वं श्रृणु-आगामिकाले यथा प्रथमसरसो जलं द्वितीयं तटाकं त्यक्त्वा तृतीये पतितं तथा हे राजन् ! स्वस्य सम्बन्धिनं त्यक्त्वा अन्यलोकैः सह जनाः प्रीति 10 करिष्यन्ति । पुनः राजा युधिष्ठिरोऽग्रे गच्छन्नेकमाश्चर्यं पश्यति जलेन क्लिन्नं वालुकासमूहं तस्य बहवो मनुष्याः संभूय रज्जूः कुर्वन्ति परं रज्जूः त्रुटति यत्ने कृतेऽपि न तिष्ठति, एतादृशं व्यतिकरं दृष्ट्वा राजा ब्राह्मणं पृच्छति, ब्राह्मणो वक्ति-हे राजन् ! कृषिकारकलोका बहुभिः क्लेशैः कलियुगे धनमुपार्जयिष्यन्ति, तद् धनं चौराऽग्निराजदण्डप्रमुखस्य भयेन मनुष्याणामन्यत्र गमने कृतेऽपि विनाशं यास्यति, पुनः राजा 15 युधिष्ठिरोऽग्रे गतः सन् कूपप्रणालिकाजलं कूपे पतत् दृष्ट्वा विस्मयं प्राप्तः सन् पृच्छति, तदा ब्राह्मणो वक्ति-हे राजन् ! कृषिवाणिज्यादिभिर्महाक्लेशात् लोका धनमुपार्जयिष्यन्ति तद् धनं सर्वं राजलोका ग्रहीष्यन्ति, सद्युगे राजानः स्वस्य धनं दत्त्वा प्रजां पुत्रवत् ज्ञास्यन्ति कलियुगे राजानः प्रत्युत प्रजाया धनं लास्यन्ति इति वैपरीत्यं भविष्यति । राजा-अग्रे गतः । अग्रे गच्छन् वनखण्डमध्ये महाप्रधानचम्पक- 20 वृक्षावृतः पार्श्वतः एकः कण्टकवृक्षो दृष्टः, तदवसरे बहवो लोकाः कण्टकवृक्षस्य सुगन्धचोवाचन्दनविलेपनैः पूजां कुर्वन्तो दृष्टाः, चम्पकवृक्षस्तु सुगन्धपुष्पैर्युक्तः शाखाप्रतिशाखाभ्यां शोभमानोऽस्ति, तं त्यक्त्वा कण्टकवृक्षमचितं दृष्ट्वा राजा विस्मयं प्राप्तः सन् ब्राह्मणं पृच्छति, ब्राह्मणो वक्ति-हे राजन् ! लोकाः कलियुगे गुणवन्तमुत्तमाचारवन्तं त्यक्त्वा पापीयसो दुर्जनस्य नीचस्य पूजां करिष्यन्ति, एतादृशं 25 श्रुत्वा राजाऽग्रे गतः पुरतः एकां महतीं शिलां बालाग्रे बद्धामाकाशे लम्बायमानां दृष्ट्वा आश्चर्यं प्राप्तः सन् ब्राह्मणं पृच्छति, तदा ब्राह्मणो वक्ति-हे राजन् ! कलियुगे पापरूपां शिलामल्पधर्मरूपवालाग्रेण तरिष्यन्ति, अन्यच्च यदा बालरूपं धर्मं त्रोटयिष्यन्ति तदा
D:\chandan/new/kalp-2/pm5\3rd proof