SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५६] [ दीपालिकापर्वसंग्रहः ॥ एतानि दश वस्तूनि अनन्तकाले गते सति भवन्ति । बहवो लोकाः क्रोधवन्तो भविष्यति, पुनर्दु:षमकालप्रभावतो लोका मर्यादां त्यक्ष्यन्ति, धर्मबुद्धे शो भविष्यति, लोका वक्रा मूर्खाश्च भविष्यन्ति, यथा कालहीनता भविष्यति तथा कुतीर्थे मतिं धारयिष्यन्ति, पुनर्लोकाः परोपकार-धर्मवर्जिता भविष्यन्ति, महान्ति नगराणि ग्रामसदृशानि भविष्यन्ति, ग्रामाः श्मशानसदृशा भयङ्करा भविष्यन्ति, राजानः प्रजापालने यमसदृशा भविष्यन्ति, पुनर्हे गौतम ! धनवन्तो व्यवहारिणो निर्धना भविष्यन्ति, पुनर्देवा दर्शनं न दास्यन्ति, मनुष्याणां जातिस्मरणज्ञानादीनि न भविष्यन्ति, मनुष्या लज्जामर्यादारहिता भविष्यन्ति, पृथिव्यां दुष्टजीवा बहवो भविष्यन्ति, पुनर्लोकाः परस्परं विघ्नं दृष्ट्वा संतोषं प्राप्स्यन्ति, लोकानां पापकरणे 10 चत्वारो हस्ता भविष्यन्ति, पुनर्धर्मकार्येऽलसाः प्रमादिनश्च भविष्यन्ति, आत्मनः कार्ये लोकानामुदरमध्ये प्रवेशं करिष्यन्ति, पुनर्हे गौतम ! परजीवानामुपद्रवकरणे तत्परा भविष्यन्ति, पुनः पञ्चमकालसम्बन्धिनो जीवा महानिर्दया भविष्यन्ति, महादीर्घरोषधारका भविष्यन्ति, भद्रकजीवान् विप्रतारयिष्यन्ति, धर्ममूर्तिमन्तः स्तोका भविष्यन्ति, पापानामाकराः स्थाने स्थाने बहवो भविष्यन्ति, अत्यन्तलोभवन्तो भविष्यन्ति, 15 मिथ्यात्विनोऽभिमानिनोऽनाचारिणोऽन्यायिनश्च लोका बहवो भविष्यन्ति, पुनर्हे गौतम ! कुलवध्वो लज्जामर्यादारहिता भविष्यन्ति, वेश्यासमानाश्च भविष्यन्ति, राजाभृत्येभ्यो दण्डं दास्यति, पृथिव्यां तिमिङ्गलन्यायो भविष्यति, चौरकुले जाताश्चौरा भवन्ति परं राजानोऽपि चौरसदृशा भविष्यन्ति, लोकानां धनमपहरिष्यन्ति, लोकान् दरिद्रिणः करिष्यन्ति, पुनर्हे गौतम ! पञ्चमकालमध्ये लोकानामग्निर्बह्वीं पीडां 20 करिष्यति, गोप्रमुखाणां जीवानां बहुवधो भविष्यति, जिनालयाः पतिष्यन्ति, पुनर्दु:खदारिद्रयोपद्रवमलोत्सर्गमारीप्रमुखैः कृत्वा धरित्री शून्या भविष्यति, देशो भङ्गं यास्यति, लोकाः सर्वे प्रेतसदृशा भविष्यन्ति, राजलोका लुब्धा भविष्यन्ति, पुनरविवेकिनो लोका मूर्खाः कलाहीनाश्च भविष्यन्ति, दातारो दारिद्र्ययुक्ता भविष्यन्ति, लक्ष्मीधराः कृपणा भविष्यन्ति, पापिनो दीर्घजीवा भविष्यन्ति, 25 उत्तमधर्मिणामायुः स्तोकं भविष्यति, राज्ञां कुलानि हीनानि भविष्यन्ति, पुनः सेवका उत्तमकुलवन्तो भविष्यन्ति, सज्जना मनुष्या दुःखिनो भविष्यन्ति, दुर्जना मनुष्याः सुखिनो भविष्यन्ति, एवं हे गौतम ! पञ्चमकालस्य स्वरूपं त्वं जानीहि । पुनर्लोकाः कलियुगस्य स्वरूपमेवं वदन्ति-द्वापरयुगे राजा युधिष्ठिरोऽभूत् , D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy