________________
दीपमालिकाव्याख्यानम् ॥]
[१५५ सर्वदेशे प्रवृत्तिं करिष्यति, एतादृशो महादृढधर्मा अनुक्रमेण स्वर्गं यास्यति । पुनर्मन्निष्णात् सप्तत्यधिकचतुःशतवर्षे (४७०) उज्जयिन्यां श्रीविक्रमादित्यो राजा भविष्यति, श्रीसिद्धसेनदिवाकराचार्यस्योपदेशं श्रुत्वा जिनशासनस्योपरि भक्तिमान् भविष्यति, सम्यक्त्वं सम्यग्रीत्या पालयिष्यति, तस्य सत्त्वसिद्धा अग्निवेतालाद्यनेकदेवाः साहाय्यं करिष्यन्ति, विद्या स्वर्णपौरुषादिः सिद्धिं यास्यति, धैर्या 5 दिगुणविख्यातस्य विक्रमादित्यस्य स्थाने स्थाने मनुष्या देवाश्च प्रशंसां करिष्यन्ति, पुनः स राजा सर्वलोकानां दानसंमानादिकं कृत्वा सर्वाननृणीकरिष्यति, स्वनाम्ना च संवत्सरप्रवृतिं करिष्यति, यस्य देवा अपि स्तवनं करिष्यन्ति, महाबलवान् प्रजापालक: परदुःखनिवारकः परस्त्रीसहोदरो राजा विक्रमादित्यो भविष्यति, ततः पञ्चशतचतुरशीतिवर्षे (५८४) व्यतिक्रान्ते श्रीवज्रस्वामि भविष्यति, ततो दशम- 10 पूर्वार्धस्य कीलिकासंहननस्य च विच्छेदो भविष्यति, तदनन्तरं षोडशाधिकषट्शतवर्षे (६१६) पुष्पमित्रेण सार्धं नवमं पूर्वं विच्छेदं यास्यति, पुनर्मम निर्वाणाद् विंशत्यधिकषट्शतवर्षे (६२०) आचार्यादयो ग्राममध्ये स्थास्यन्ति (?), मम निर्वाणाद् नवाधिकषट्शतवर्षे (६०९) रथनूपुरनगराद् दिगम्बरमतोत्पत्तिर्भविष्यति, श्रीविक्रमादित्यात् पञ्चत्रिंशदधिकशतवर्षे (१३५) गते शाकी राजा शालिवाहनो 15 भविष्यति, पञ्चाशीत्यधिकपञ्चशतवर्षे (५८५) गते हरिभद्रसूरिभविष्यति अनेकग्रन्थकर्ता महाप्रभावको, मन्निर्वाणात् त्रिनवत्यधिकनवशतवर्षे ९९३ कालिका-चार्यो भविष्यति, यस्येन्द्रो वन्दनां करिष्यति, यः कालकसूरिः पर्युषणापर्व पञ्चमीतः चतुर्थ्यां कारणादानीतवान् , मन्निर्वाणात् सप्तत्यधिकद्वादशशतवर्षे (१२७०) व्यतिक्रान्ते बप्पभट्टिसूरिभविष्यति सर्वविद्याविशारदः तद्वाक्याद् गोपपर्वते आमराजा 20 जिनालयं करिष्यति, तत्र सार्धत्रिकोटिस्वर्णप्रतिमा स्थापयिष्यति । मन्निर्वाणात् त्रयोदशशतवर्षे (१३००) बहवो मतभेदा भविष्यन्ति, बहुमोहस्य कारणात् दुःषमकालप्रभावतश्चानेकगच्छभेदा भविष्यन्ति, केचित् तपोऽहङ्कारं करिष्यन्ति, केचिच्च धर्मक्रियायां शिथिला भविष्यन्ति, क्रियावन्तोऽपि साधवः परस्परं क्लेशं करिष्यन्ति । पुनरस्यामवसर्पिण्यां दश अच्छेरका जाताः । तानाह
समवसरणे उपसर्गः १, गर्भापहार: २, स्त्रीतीर्थङ्करः ३, परिषदभावः ४, कृष्णस्यामरकङ्कागमनं ५, चन्द्रसूर्यमूलविमानागमनं ६, हरिवंशकुलोत्पत्तिः ७, चमरेन्द्रोत्पातः ८, एकस्मिन् समयेऽष्टाधिकशतमुक्तिगमनं ९, असंयतिपूजा १०,
D:\chandan/new/kalp-2/pm5\3rd proof