________________
दीपमालिकाव्याख्यानम् ॥]
[१५१ मन्यमानाः, इति चतुर्थस्वप्नफलम् । जातिस्मृत्यादिरहितं मृतसिंहतुल्यं जिनदर्शनं न परतीथिकात् पराभवं प्राप्स्यति परं परदर्शनानां भयं करिष्यन्ति, इति पञ्चमस्वप्नफलम् । पद्महदे कमलोत्पत्तिर्युक्ता, न अशुचिभूमौ, एवं धर्मोत्पत्तिरपि उत्तमकुले युक्ता, नाधमकुले, परन्तु धर्मोत्पत्तिः कालप्रभावतो नोत्तमकुले भविष्यति, इति षष्ठस्वप्नफलम् । यथा कश्चिद् मन्दबुद्धिः कृषिकारो धान्यबीजमूषरक्षेत्रे वपति तथा 5 मूर्खबुद्धिमन्तः पुमांसः पात्रापात्रमनालोक्य पात्रबुद्ध्या कुपात्रे दानं दास्यन्ति, इति सप्तमस्वप्नफलम् । अष्टमस्वप्नफलम्-स्वर्णकलशसदृशा ज्ञानादिगुणयुक्ताः साधवः स्तोका भविष्यन्ति न च तेषां पूजाप्रभावनामपि कोऽपि करिष्यति, परन्तु ये बाह्याऽऽडम्बरवन्तो ज्ञानक्रियारहिता: साध्वाभासाः तान लोकाः पजयिष्यन्ति, गीतार्था अपि साधवो हीनाचारिभिः सह मिलिताः चलिष्यन्ति, यथा बहून् ग्रथिलान् लोकान् 10 दृष्ट्वा सज्जनलोका अपि तेषां मध्ये मिलिताः सन्तः जानन्तोऽपि स्वयमात्मजीवितरक्षार्थं ग्रथिला भविष्यन्ति तथा ।
अथ तत्कथा-पृथिवीपुरे नगरे पूर्णभद्रनामा राजा आसीद् , तस्य महाबुद्धिनिधानः चतुरः सकलकार्यकुशलः सुबुद्धिनामा मन्त्रीश्वरोऽभूद् , अथैकदा प्रस्तावे राजसभामध्ये लोकदेवनामा नैमित्तिकः समागतः तदा अमात्येन पृष्टं, हे नैमित्तिक- 15 चूडामणे ! आगामिकालस्य शुभाशुभवार्ता काञ्चित् प्रकाशयतु , तदा नैमित्तिकेन निजनिमित्तशास्त्रं सम्यक् पर्यालोच्य स्वज्ञानबलात् कथितम्-हे मन्त्रीश्वर ! अतो दिनाद् एकस्मिन् मासे मेघवृष्टिर्भविष्यति, तज्जलपानं च ये करिष्यन्ति ते सर्वे मनुष्या ग्रथिलाः भविष्यन्ति, ततः पश्चात् कियति दिवसे शुभा वृष्टिर्भविष्यति, तज्जलपानाच्च पुनः सर्वे सावधाना भविष्यन्ति, एतादृशं नैमित्तिकस्य वचनं श्रुत्वा राजामात्याभ्यां 20 नगरमध्ये घोषणा कारिता । यत् सर्वैः लोकैः पानीयस्य संग्रह: कर्तव्यः, तदनन्तरं सर्वैरपि राजवचनं श्रुत्वा पानीयस्य संग्रहः कृतः । अथ नैमित्तिककथनानुसारेण वर्षा जाता, तदा सर्वैरपि लोकैः वर्षापानीयस्य पानं न विहितम् , कियति दिवसे गते पूर्वसंगृहीतं जलं यदा सम्पूर्णं जातं तदा राजाऽमात्याभ्यां विना सर्वैः सामन्तादिभिरपि वर्षापानीयं पीतम् , तेन च सर्वग्रामो ग्रथिलः जातः, अथ सर्वे लोका 25 एकत्रीभूय नग्नाः सन्तः नृत्यन्ति हसन्ति अन्याश्च कुचेष्टाः कुर्वन्ति, राजामात्याभ्यां विना सर्वे तादृशं कुर्वन्तः राजानम् अमात्यं च तथाविधचेष्टारहितं ज्ञात्वा ते ग्रथिलाः सर्वे विचारयन्ति-राजाऽमात्यौ ग्रथिलौ जातौ अत एव अस्माकं कार्यं न कुर्वन्ति, अत
D:\chandan/new/kalp-2/pm5\3rd proof