________________
१५०]
[ दीपालिकापर्वसंग्रहः ॥ शूलपाणियक्षगृहे कृता, त्रिचतुर्मासी चम्पानगर्याम् , विशालायां-वाणीयग्रामे द्वादश चतुर्मास्यः कृताः, राजगृहनगर्यां नालन्दपाटके चतुर्दश चतुर्मास्यः, षट् चतुर्मास्यः मिथिलानगर्यां भगवता कृताः, द्वे चतुर्मास्यौ भद्रिकानगर्यां कृते, एका चतुर्मासी आलम्भिकानगर्यां कृता, एका चतुर्मासी म्लेच्छभूमिकायां कृता, एका चतुर्मासी श्रावस्तीनगर्यां कृता, एका च मध्यमपापायां हस्तिपालराज्ञः सभायामान्तिमा कृता, तत्र अन्तिमचातुर्मास्यां श्रीवीरप्रभुः स्वस्यायुषोऽन्तं ज्ञात्वा भव्यलोकोपकारार्थं षोडश प्रहरान् यावद् देशनां दत्तवान् , तस्मिन्नवसरे पुण्यपालराजा प्रभोर्वन्दनार्थमागतः, श्रीवीरप्रभोर्वन्दनां कृत्वा हस्तद्वयं सम्पुटीकृत्य इति वक्ष्यमाणं
पृष्टवान्-हे स्वामिन् ! अद्य रात्रौ मया अष्टौ स्वप्ना दृष्टाः, ताननुक्रमेण भवतामग्रे 10 कथयामि-जीर्णशालायां स्थितो हस्ती दृष्टः १, कपिश्चपलतां कुर्वन् दृष्टः २, क्षीरवृक्षः
कण्टकैर्व्याप्तो दृष्टः ३, चतुर्थे च स्वप्ने काको दृष्टः ४, पञ्चमे मृतः सिंहो भयं कुर्वन् दृष्टः ५, षष्ठे स्वप्नेऽशुचिभूमिकायामुत्पन्नमरविन्दं दृष्टम् ६, सप्तमे स्वप्ने ऊषरक्षेत्रे बीजमुप्तं दृष्टम् ७, अष्टमे स्वप्ने स्वर्णकलशो म्लानो दृष्टः ८ इति राज्ञा उक्ते एतेषां
च फले पृष्टे प्रभुर्वक्ति-हे राजन् ! एषां फलमेकाग्रचित्तेन श्रृणु-अस्मिन् पञ्चमारके 15 दुःख-दारिद्रय-रोग-शोक-भयैर्व्याप्तो गृहस्थाश्रमो जीर्णशालासदृशो भविष्यति
यस्मिन् गृहस्थरूपो हस्ती रक्तः सन् स्थास्यति दुःखं च सुखं कृत्वा मानयिष्यति परमुत्तमसुखदात्री व्रतशालां नाङ्गीकरिष्यति, इति प्रथमस्वप्नफलम् । पुनः पञ्चमकाले कपिवत् चपला अल्पसत्त्वा जीवा ज्ञानक्रियायामादरभाजो न भविष्यन्ति, साधवश्च
शिथिलाचारा भविष्यन्ति, ये पुनः दृढव्रतधारका धर्मकार्ये शिक्षां दास्यन्ति तेषां हास्यं 20 च करिष्यन्ति, यथा ग्रामीणलोका नगरस्थलोकानां हास्यं कुर्वन्ति, तथा करिष्यन्ति,
इति द्वितीयस्वप्नफलम् । तथा ज्ञाने क्रियायां च भक्तिमन्तो जिनशासनोन्नतिकारकाः सप्तक्षेत्रीवित्तव्ययविधायकाः शुभगुणवन्तश्चारित्ररागिणः क्षीरवृक्षतुल्या ये श्रावकास्तान् वेषमात्रधारिणोऽहङ्कारवन्तो गुणवत्साधुद्वेषिणः सुसाधुपूजामसहमाना लिङ्गिनः कण्टकतुल्याः रोधयिष्यन्ति, इति तृतीयस्वप्नफलम् । यथा अतिस्व25 च्छजलभृतां वापी दृष्ट्वा काको न तत्र रागं करोति, एवं ज्ञानक्रियायुक्तान् अपि
साधून् स्वगच्छे दृष्ट्वाऽपि रागं न साधवः प्राप्स्यन्ति, यथा काकस्य रागं न वापी प्राप्नोति तथा साधवोऽपि गच्छस्य रागं न करिष्यन्ति इत्यर्थः । परन्तु यत्र गच्छे मन्दाऽऽचाराः साधवः तत्र सुन्दरं स्वगच्छं त्यक्त्वा यास्यन्ति आत्मनः पण्डितं
D:\chandan/new/kalp-2/pm5\3rd proof