________________
१४८]
[दीपालिकापर्वसंग्रहः ॥ भव्यजीवोपकारिकाणां सेवां कुरु, दानादिचतुर्विधस्य धर्मस्याराधने उद्यमं कुरुष्व, एष धर्मो विशेषेण पर्वसु आराधनीयः, एतादृशं गुरुवाक्यं श्रुत्वा राजा उवाच-हे स्वामिन् ! संवत्सरादि समस्तपर्व जिनशासने प्रसिद्धं वर्तते, तस्य पर्वणो महिमा श्रावकैः बहुतरो
मन्यते परं लोकोत्तरं दीपावलिपर्व कुतः प्रवृत्तं ?, अस्मिन् पर्वणि चारुवस्त्र5 भूषणादीनि मनुष्या धारयन्ति, पुनः वृषभादिशृङ्गरञ्जनक्रियां गृहाङ्गणप्रमुख
संस्कारादीनि च कुर्वन्ति, तस्य किं कारणम् ? इति राज्ञा पृष्टे सति गुरुर्वक्ति स्महे राजन् ! एतस्य सम्बन्धं त्वमेकाग्रचित्ततया शृणु । श्रीवर्धमानस्वामी प्राणतनामदशमदेवलोकस्य पुष्पोत्तरविमानाच्च्युतः, आषाढशुक्लषष्ठीदिने उत्तरा
फाल्गुनीनक्षत्रे चन्द्रयोगे आगते सति क्षत्रियकुण्डग्रामनगराधिपतिश्रीसिद्धार्थराज्ञो 10 भार्यायाः त्रिशलायाः कुक्षावुत्पन्नः । यस्यां रात्रौ भगवानुत्पन्नः तस्यां रात्रौ
गर्भप्रभावात् त्रिशलाराज्या चतुर्दश स्वप्ना दृष्टाः, तानाह-सिंहः, गजः, वृषभः, लक्ष्मीः, पुष्पमाला, चन्द्रः, सूर्यः, ध्वजः, पूर्णकलशः, पद्मसरः, समुद्रः, देवविमानम् , रत्नराशिः, निर्धूमाग्निश्च । एवमेते स्वप्नाः क्रमेण दृष्टाः *ततः चैत्रशुक्ल
त्रयोदश्यामर्धरात्रे श्रीवीरप्रभोः जन्म जातम् , तस्मिन् समये षट्पञ्चाशद्दि15 क्कुमारीणामासनानि चकम्पिरे, अवधिना प्रभोर्जन्म ज्ञात्वा अत्यन्तप्रमुदिताः सन्त
आगत्य जन्मकार्यं कुर्वन्ति । तदनन्तरं चतुष्षष्टिसुरेन्द्राणामासनानि चकम्पिरे, ततस्तेऽपि अवधिना विज्ञाय अत्यन्तप्रमुदिताः सन्त आगत्य त्रिः प्रदक्षणीकृत्य जिनाम्बां जिनं च नत्वा मातरमवस्वापिनीं निद्रां दत्त्वा प्रभुं गृहीत्वा मेरुपर्वतोपरि
गत्वा स्नात्रमहोत्सवमहम्पूविकया चक्रुः । पश्चाद् मातुः समीपे स्थापयित्वा 20 मातुरवस्वापिनीं निद्रां संहृत्य नमस्कृत्य स्वस्थानं जग्मुः । अथ यस्माद् दिनात् प्रभुर्गर्भ
आगतस्तस्माद् दिनाद राजा धनधान्यैर्वृद्धिमाप, स्वर्णरत्नादीनां च वृद्धिः सञ्जाता । ततो गुणनिष्पन्नं सर्वस्वजनसमक्षं माता-पितृभ्यां द्वादशे दिने वर्धमानकुमार इति नाम प्रदत्तम् , देवैश्च अनन्तसत्त्वमनन्तधैर्यं दृष्ट्वा महावीर इति नाम विदधे । अथ
भोगसमर्थं ज्ञात्वा पित्रा परं प्रमोदतो यशोमतीनाम्न्या राजकन्यया सह पाणिग्रहणं 25 कारितम् । अथ प्रभोः सुपार्श्वनामा पितृव्यः, नन्दिवर्धननामा ज्येष्ठो भ्राता,
* अत्र सामान्येन नाममात्रेण संक्षिप्तं श्रीवीरचरित्रं दर्शितम् , अत एव देवलोकात् च्युत्वा आषाढशुक्लषष्ठ्यां देवानन्दागर्भागमनं तथैव वयशीतिदिनव्यतीते इन्द्रेण त्रिशलागर्भे अवतारितः, (गर्भापहार: कारितः, इत्यर्थः) एष च विशेषार्थो न दर्शितः ।
D:\chandan/new/kalp-2/pm5\3rd proof