________________
पाठकश्रीउमेदचन्द्रविरचितं दीपमालिकाव्याख्यानम् ॥
श्रीनेमीशं जिनं नत्वाऽजिमगञ्जपुरे स्थितम् । दीपोत्सवस्य व्याख्यानं, लिख्यते देवभाषया ॥१॥
अस्मिन् जम्बूद्वीपे भरतक्षेत्रस्य मध्यखण्डे मालवदेशे अलकातुल्या उज्जयिनी 5 नाम नगरी बभूव । तस्यां सूर्यवत् तेजस्वी भूपगुणसमन्वितः सम्प्रतिनामा राजा राज्यं करोति स्म । अथैकदा उज्जयिन्यां सुस्थितसूरिनामा आचार्यः षट्त्रिंशद्गुणैविभ्राजमानो ग्रामानुग्रामं विहरन् जीवितस्वामिश्रीमहावीरप्रतिमावन्दनार्थं गतः, एतस्मिन् प्रस्तावे सम्प्रति राजा राजमार्गे गच्छन् सुस्थितसूरिं दृष्ट्वा जातिस्मरणभाग् बभूव । ततः राजा समीपे आगत्य बहुभक्तिपूर्वकं श्रीगुरुं ननाम । करद्वयं संयोज्य 10 राजा गुरुं प्रति वक्ति स्म-'हे स्वामिन् ! मां जानीथ' इति पृष्टे गुरुराह-हे राजन् ! भवन्तं को नाम न जानाति ?; ततो राजा पुनरुवाच-हे ज्ञानसमुद्र ! ज्ञानविशेषेण भवताऽहमुपलक्षितो न वा ? इति मया पृच्छयते, तदा सूरिश्चमत्कारं प्राप्य श्रुतज्ञानोपयोगं दत्त्वा उवाच भो राजन् ! त्वं पूर्वभवे संवेगवानस्माकं शिष्यो बभूव, उत्तमदीक्षाप्रभावतो भवान् राजा जातः, एषा च सम्पत् प्राप्ता । एतादृशं गुरोर्वचनं श्रुत्वा आचार्ये 15 प्रीतिमान् राजा वक्ति-हे स्वामिन् ! मया बुभुक्षितेन रङ्केन इदं राज्यं प्राप्तं तत् सर्वं युष्माकं प्रसादफलं इतरथा मम राज्यं कुतः ? तस्मादिदं राज्यं भवद्भिर्याचं यथाऽहमनृणी स्याम् , एतादृशं राज्ञो वाक्यं श्रुत्वा गुरुरुवाच-हे निर्मलबुद्धे राजेन्द्र ! अस्माकं राज्यस्य वाञ्छा नास्ति, वयं तु शरीरेऽपि निःस्पृहाः किं पुनः राज्ये, तस्माद् हे राजेन्द्र ! अस्माकं राज्येन सह किमपि प्रयोजनं नास्ति, इदं राज्यं भवद्भिः पुण्यात् 20 प्राप्तं ततो हे राजेन्द्र ! पुनः पुण्ये उद्यमः कर्तव्यः, निर्मलं सम्यक्त्वं च पालनीयम् । श्रीजिनेश्वरजगन्नाथस्य निरन्तरं पूजां कुरु । पुनः सुसाधूनां निर्ग्रन्थानां पञ्चसमितिसमितत्रिगुप्तिगुप्तानां सप्तदशभेदसंयमपालकानां द्विचत्वारिंशदाहारदूषणवर्जितानां
D:\chandan/new/kalp-2/pm5\3rd proof