________________
१४६]
[ दीपालिकापर्वसंग्रहः ॥ चैतन्यं च लब्धमिव जनाः प्रतिवर्ष प्रतिपद्दिने वस्त्रा-न्न-पान-ज्योत्कार-गेहभूषादिमहोत्सवाः कुर्वन्ति । अथ यः साधूनां निन्दादिकारकः स नररूपोऽपि मृग एवपशुरेवेति सर्वत्र ख्यातिकृते ज्ञापनार्थं च गृहे गृहे राज्ञा गोहिसः कारितः, अद्यापि मरुदेशादौ छगणस्य कुर्वन्तीति ॥
ज्योत्कारघरे प्रथमो गणेशः, कैवल्यलक्ष्मी जिनतीर्थराज्यम् । विस्तारयामास गुणौघशक्ति, श्रीवीतरागार्थविभावनातः ॥१॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ
पञ्चदशस्तम्भे २११ व्याख्यानम् ॥
D:\chandan/new/kalp-2/pm513rd proof