________________
१४०]
[ दीपालिकापर्वसंग्रहः ॥ त्रिंशद्वर्षाणि गृह उषित्वा कृतषष्ठतपा मार्गशीर्षबहुलदशम्यां संयम जग्राह, तदैव मनःपर्यवज्ञानं जातम् । ततो दुस्तपं तपः कुर्वतः श्रीवीरस्य वैशाखशुक्लदशम्यां घातिकाभावे सति केवलमुत्पन्नम् । किञ्चिदूनत्रिंशद्वर्षाणि यावत् केवलज्ञानपर्यायान्वितः श्रीवीरः स्वायुरल्पं विदन्नपापापुर्यां हस्तिपालनरेशस्य राज्यसंसदि अन्तिमचतुर्मासकमकरोत् ।।
तदवसरे स्वामी अनेकेषां भव्यानां संशयान्निवार्य भाविभावस्वरूपमुक्त्वा षोडशप्रहरान् लोकानुकम्पया धर्मदेशनां जगौ । तदा श्रीवीर आदिमगणभृतं देवशर्माह्वद्विजप्रबोधार्थं प्राहिणोत् , स्वामिप्रेमबन्धविच्छेदाय च ।
अथ कार्तिकामावास्यादिने षष्ठतपाः प्रभुः पर्यङ्कासनमासीनश्च निशापश्चिम10 यामाधै स्वातिनक्षत्रे च शक्रेण स्वामीति भाषितः- "हे भगवन् ! यूयं क्षणमेक
मायुर्वृद्धिं कुरु, प्रतीक्षस्व, युष्मज्जन्मदिने संक्रान्तो भस्मग्रह: द्विसहस्रवर्षस्थितिकोऽधना स्थास्यति. तेन तीर्थोन्नतिर्न स्यात. तव दृष्टिप्रभावेण त तस्य निष्फलोदयो भविता" इति । प्रभुराह- "हे इन्द्र ! आयुष्कर्मपुद्गलाः पूर्वभवे बद्धास्तेषां न्यूनाधि
कत्वं जिना अपि कर्तुमक्षमाः, अपरं चाभाव्यं न भवेद्भाविनो भावस्य च नाशो न 15 स्यात्" इति ।
तदा पञ्चपञ्चाशदध्ययनानि शुभफलविपाकानि पञ्चपञ्चाशदध्ययनानि चाशुभफलविपाकानि जगत्प्रभुर्निजगाद, षट्त्रिंशदपृष्टव्याकरणानि चोक्तानि गणधरसाधुश्रावकादिभिरपृष्टेनापि स्वयमेव लोकानुकम्पया प्रोक्तानि । अथ प्रभुः कृतयोगनिरोधः शैलेशीकरणं विधाय सिद्धिसौधमुपागतः । तदा सूक्ष्मानुद्धरकुन्थुषु भूयस्सु 20 समुत्पन्नेषु दुष्पालं संयमं मत्वा साधवोऽनशनं व्यधुः । तदा सर्वसङ्घः साश्रुनेत्र इति व्यलपत् । तथाहि -
जगबन्धुः कृपासिन्धुः, स्वामिन् ख्यातोऽसि किं ततः । दत्त्वाऽस्मभ्यं महादुःखं, महानन्दं श्रितः स्वयम् ॥१॥ हहा महाधमतमा, विश्वतारक ! नारकाः । प्रमोदं कलयामासुर्ये, ननु त्यजति त्वयि ॥२॥
25
D:\chandan/new/kalp-2/pm513rd proof