________________
दीपावलिकापर्वव्याख्यानम् ॥]
[१४१ विश्वत्रयाधार कृपानिधे त्वं, विज्ञप्तिमेकां शृणु सङ्घनाथ !। सङ्घस्य रागो विविधानुभावो, विघ्नस्य कर्ता किमु नात्र जातः ॥३॥ वीरेति वीरेत्यभिधानमुक्त्वा, कस्याभिमुख्यं च विधाय पृच्छाम् । निःसंशयाः स्याम कथं च मुग्धा-नाश्वास्य मुक्ति गतवान् स्वयं यत् ॥४॥ त्वत्सदृशो नास्त्यधुना जगत्यां, यः सङ्घसारां कुरुते निरीह ! । भावाक्षिसहायक ! जीवनेत-रमोघ ! कस्त्वामभिधास्यते च ॥५॥ त्राताऽसि धातः किमुपेक्षसेऽस्मान् , ज्ञात्वापि चित्तस्य गतिं जनानाम् । मूर्तेन ज्ञानेन भवत्स्वरूपं, तूर्णं ग्रहीष्यामि विभोः कथं हा ॥६॥ तदा कस्मैचित् कार्याय एकीभूताः काशी-कौशलभूभृतश्चेटकनृपाज्ञाकारिणश्च नव मल्लकीज्ञातीया नव च लच्छकीज्ञातीया अष्टादश राजानोऽमावास्यादिने 10 सपौषधमुपवासं कृत्वा जिनवाणीं शृण्वन्ति स्म । तदा श्रीजिनस्य निर्वाणकल्याणके जाते समस्तनृपाः पाश्चात्यनिशायां श्रीवीरे भावोद्योते गते द्विधाऽन्धकारसहनेऽक्षमा द्रव्योद्योताय दीपान् व्यधुः । तथा गच्छद्भिरागच्छद्भिर्देवदेवीभिर्कोतिर्मयी निशाऽभूत् । देवगणास्तमोहररत्नानि करे कृत्वाऽऽगच्छन्त ऊचुः-"जिनं प्रति मत्कृतमिदमारात्रिकोत्तारणम्" अनेन हेतुना सर्वत्र "मेराइय मेराइय" इतिशब्दः प्रसृतः । लोका अपि 15 दीपावलि करे धृत्वा “मे आरात्रिकमिदं" इति वदन्तस्तत्राययुः । इत्थं परस्परं सर्वत्र दीपान् व्यधुः उद्योतार्थं । ततः प्रभृति महीतले दीपोत्सवाभिधं पर्व प्रावर्तत दीपश्रेणिकरणात् । अन्यच्च वीरशासने निरङ्कशा मिथ्यात्विदेवा भस्मग्रहश्च दुष्टत्वं कुर्वन्ति, तत्कृतदुष्टफलहननार्थं मेराइयमभूत् वीरसङ्घस्याति:-पीडा च दूरीभवत्विति कृत्वा परं रूढ्या पर्व जातम् । अथ प्रभाते द्विजं प्रबोध्य वीरवन्दनायागच्छता गणभृता 20 निरुत्साहान्निरानन्दान् देवान् नरान्नारीश्च दृष्ट्वोचे-"यूयं कथं सर्वेऽद्य निरुत्साहाः" ? देवैः प्रोक्तं "श्रीवीरपरमात्मा स्वधाम प्राप्तः, किं कुर्महे" ? । इति श्रुत्वा स्तिमितनेत्रो मनसि दध्यौ-"अहो ! जगच्चक्षुः ! मादृशां भिक्षूणामिक्षुरसादिसमया वाण्याऽधुना कः प्रतिबोधयिष्यति ? ईदृशे समये स्वाश्रितोपजीविनां दूरीकरणं नार्ह, मामन्तराले मुक्त्वा शिवं गतः । किमहं भवद्वस्त्राञ्जलं गृहीत्वा बालचेष्टितमकरिष्यम् ? मोहादिमहायोधे- 25 भ्यस्त्वं न भीतः, परं मत्तः शिशुतः कथं भीत: ? मदवगाहनया मोक्षमार्ग: मुक्तिस्थलं
D:\chandan/new/kalp-2/pm5\3rd proof