________________
दीपालिकाकल्पः ॥ ]
इअ सुणिउणं राया सुमिणफलं पत्तपरमसंवेगो । गहिऊणं सामन्नं सासयसुक्खं गओ मुक्खं ||४३||
कियत्यपि गते काले सुवृष्टिर्भाविनी पुनः । सद्यः सज्जीभविष्यन्ति तत्पयःपानतो जनाः ॥४॥ राज्ञो मन्त्री तदाचख्यौ भेरीताडनपूर्वकम् । जनानां भूपतिर्वारि-संग्रहार्थमथादिशत् ॥५॥ जनः सर्वस्तथा चक्रे ववर्षोक्तदिनेऽम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ||६| अक्षीणसंगृहीताम्बु- राजामात्यौ विना परे । सामन्ताद्याः पपुर्नव्यं वारि वैकल्यकारकम् ॥७॥ तत् पीत्वा ग्रथिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं विचेष्टिरे मुग्धा विना तौ राजमन्त्रिणौ ॥८॥ राजामात्यौ विसदृशौ सामन्ताद्या निरीक्ष्य ते । मन्त्रयाञ्चक्रिरे नूनं ग्रथिला राजमन्त्रिणौ ||९|| अस्मद्विलक्षणाऽऽचारा-विमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमन्त्रिणौ ॥१०॥ मन्त्री ज्ञात्वेति तन्मन्त्रं नृपायाख्यज्जगाद सः । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् ॥११॥ मन्त्र्यूचे ग्रथिलीभूय स्थातव्यं ग्रहिलैः सह । प्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥१२॥
कृत्रिमं ग्रहिलीभूय ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसम्पदा ||१३|| ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था मूलप्रकृतिधारिणः ॥१४॥ एवं च दुष्षमाकाले गीतार्था लिङ्गिभिः सह । सदृशीभूय वर्त्स्यन्ति भाविसुसमयेच्छवः ॥१५॥ एवं स्वप्नफलं श्रुत्वा गृहवासे विरागवान् । स्वाम्यन्ते व्रतमादाय पुण्यपालो गतो दिवम् ॥१६॥
D:\chandan/new/ kalp-1 / pm5\ 3rd proof
[ १२७