SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीअज्ञातकर्तृकः दीपालिकाकल्पः ॥ उप्पायविगमधुवमयमसेसभावप्पयासओ भयवं । तिहुयणपणमियचरणो सिरिवीरजिणेसरो जयइ ॥१॥ वुच्छं संखेवेणं चरियं तस्सेव भुवणअच्छरियं । जायं जमियसिद्धं दीवालियनाम वरपव्वं ॥२॥ श्रीवर्द्धमानमानम्य वक्ष्ये दीपालिकोत्सवम् । राजाऽभूत् सम्प्रतिर्नाम्ना त्रिखण्डभरताधिपः ॥३॥ जीवतः स्वामिनो बिम्बं वन्दनायाऽन्यदा ययुः । उज्जयिन्यां श्रीमदार्यसुहस्त्याचार्यकुञ्जराः ॥४॥ अन्यदा रथयात्रायां दृष्ट्वा तान् सम्प्रतिर्नृपः । सञ्जातजातिस्मरणो नमस्कृत्य सोऽजिज्ञपत् ॥५।। मया द्रमकमात्रेण प्रसादाद्भवतामिदं । राज्यं प्राप्तं तद् गृहणीत त्वमनुगृह्णीत मां प्रभो ! ॥६॥ सूरिराह-राज्यं न कल्पतेऽस्माकं निस्पृहाणां वपुष्यपि । त्वं मोक्षवृक्षबीजाभे सम्यक्त्वे निश्चलो भव ॥७॥ संपूज्याः श्रीमदर्हन्तः पर्युपास्याः सुसाधवः । दयादानादिको धर्मः कर्तव्यः सर्वपर्वसु ॥८॥ पर्वाणि वार्षिकादीनि जैना एवं वदन्ति तत् । ख्यातं दीपालिकापर्व लोके लोकोत्तरे कुतः ॥९॥ 15 १. आर्यसुहस्त्याचार्यान् १) श्रेणिक २) कोणिक ३) ...नन्द ४) चन्द्रगुप्त ५) बिन्दुसार ६) अशोक ७) कुणाल ८) सम्प्रति । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy