________________
१२२]
[दीपालिकापर्वसंग्रहः ॥ अन्यकर्तृकदीपालिकल्पादिषु विलोकितः । अर्थो न्यबन्धि कल्पेऽत्र स्वान्योपकृतिहेतवे ॥४३४॥ यदवद्यं भवेदत्र मन्दबुद्धित्वहेतुना । तदुदारकृपावद्भिः शोधनीयं मनीषिभिः ॥४३५।। 5 संवत्सरेऽग्नि-३ द्विप-८ विश्व-१४ (१४८३) सम्मिते दीपालिकाकल्पममुं विनिर्ममे।
तपागणाधीश्वरसोमसुन्दरश्रीसूरिशिष्यो जिनसुन्दराह्वयः ॥४३६।। दीपालिकापर्वकल्पोऽयं वाच्यमान: सुधीजनैः । जीयाज्जयश्रियो हेतु-राचन्द्रार्कजगत्त्रये ॥४३७।। इति श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरेः । 10 शिष्यभट्टारकप्रभोर्जिनसुन्दरसूरेः कृतिरेषा विनिर्मिता ॥४३८॥ श्रीयुगप्रधानावतार-तपागच्छाधिपति-श्रीजगच्चन्द्रसूरीश्वरशिष्यश्रीदेवसुन्दरसूरीश्वरशिष्य-श्रीसोमसुन्दरसूरीश्वरशिष्य
श्रीजिनसुन्दरसूरीश्वरविरचितः श्रीदीपालिकाकल्पः समाप्तः ॥
D:\chandan/new/kalp-1/pm513rd proof