________________
दीपालिकाकल्पः ॥]
उपशान्ते तदोत्पाते पुनरुज्जीवितो जनः । संभूय भोजनाच्छादाऽ-लङ्काराद्युत्सवान् व्यधात् ॥४२२॥ प्रतिवर्षं ततो लोकः करोति प्रतिपद्दिने । वस्त्रान्नपानजोत्कार-गेहभूषादिकोत्सवान् ॥४२३॥ यो मुनीनामवज्ञाकृ-न्नररूपो मृगो हि सः । इति ख्यातीकृते राज्ञा कारितो गोहिसोऽभवत् ॥४२४॥ श्रीवर्धमाननिर्वाण-कल्याणकदिने नृपैः । दीपानां करणाल्लोके जज्ञे दीपोत्सवस्थितिः ॥४२५ ॥
चतुर्द्दश्याममावास्यां षोडशप्रहावधिः । उपोष्य कोटिसहितं पूजयेत् श्रुतमष्टधा ॥४२६॥
पञ्चाशतं सहस्राणि परिवारं सगौतमम् । स्मृत्वा स्वर्णाम्बुजेऽ खण्ड - दीपो बोध्यः सतण्डुलः ॥४२७|| इत्थं सहस्रपञ्चाश-द् गुणं पुण्यमुपार्ज्यते । जैनधर्मरता भव्याः प्राप्नुवन्त्यक्षयं सुखम् ॥४२८||
यथा वृक्षेषु कल्पद्रुः सुरेषु त्रिदशाधिपः । चक्रवर्त्ती नरेन्द्रेषु नक्षत्रेषु हिमद्युतिः ॥४२९|| तेजस्विषु दिवानाथः सुवर्णं सर्वधातुषु । तथा दीपालिकापर्व प्रधानं सर्वपर्वसु ॥ ४३०॥ वीरतीर्थपतिराप निर्वृतिं यत्र केवलरमां च गौतमः । राजभिर्व्यरचि दीपकोत्सवस्तत्रतोऽतिगुरुपर्वभूतले ॥ ४३१|| जयश्रियं यच्छतु वः स एष दीपोत्सवाख्यो दिनचक्रवर्त्ती । समस्तविश्वत्रितयप्रदत्तराज्योत्सवैर्निमितसर्वसिद्धिः ॥४३२|| एवं निशम्याऽऽर्यसुहस्तिसूरेर्दीपालिकापर्वसमस्तदेशे । प्रावीवृतत् सम्प्रतिभूमिभर्त्ता राज्यं वितन्वन् प्रतिवर्षमत्र ॥ ४३३||
[ १२१
१. जुहारसा । २. गोहिसो- छाणनो गोह, जे साधुओनी निंदा करे छे, ते मनुष्य छतां पशुसमान ज छे, तेवुं सर्व स्थाने प्रसिद्धिमां लाववा माटे अने जणाववा माटे राजाए घेर घेर गोहिसो (गोवर्द्धन) घरनी बाहेर कराव्यो, हजु पण मारवाड वगेरेमां छाणनो गोहिसो करवामां आवे छे. ३. अष्टधा-चन्दन- धूप-दीप- नैवेद्य-वस्त्र-कर्पूर-कुसुम-नाणकादि ।
D:\chandan/new/kalp-1 / pm5\ 3rd proof
5
10
15
20