________________
१२०]
[दीपालिकापर्वसंग्रहः ॥ गुर्वादेशेन स प्राप्तो ववन्दे स्वगुरून् मुदा । आकारणनिमित्तं तै-स्तस्याऽकथि यथातथम् ॥४१०।। ततो विष्णुकुमारोऽगा-त्तदानीं नृपसंसदि । स नेमे नमुचिं मुक्त्वा निःशेषैरपि राजभिः ॥४११।। उवाच नमुचिं विष्णुः पूरिताभिग्रहा नृप ! । यास्यन्ति साधवः स्थित्यै कियन्ती देहि तन्महीम् ॥४१२।। ततस्तस्य नृपः पृथ्वी त्रिपदीप्रमितामदात् । तन्निशम्य वचस्तस्य च कोपाटोपवानभूत् ॥४१३।। लक्षयोजनमानाङ्गो विष्णुर्वैक्रियलब्धितः । क्रमौ पूर्वापरोदध्योय॑स्य विश्वमकम्पयत् ॥४१४।। तृतीयं नमुचेः पृष्टेऽ-निष्टं क्रममतिष्ठितम् । क्षिप्तस्त्रिविक्रमेणेति रसातलं बली रिपुः ॥४१५।। चलाचलाचला जज्ञे पर्वताश्च चकम्पिरे । समुद्रा मुक्तमर्यादा भयग्रस्ता ग्रहास्तदा ॥४१६।। इदं किमिति संभ्रान्ता-अभूवंस्त्रिदशा अपि । जातशङ्कोऽस्तशङ्कोऽपि शक्रस्तत्र क्षणेऽजनि ॥४१७।। अवधिज्ञानतो ज्ञात्वा निमित्तं तत्र वासवः । गन्धर्वान् प्राहिणोद् विष्णुकुमारस्योपशान्तये ॥४१८।। शक्रनिर्दिष्टगन्धर्व-गीतैः शाम्यशमाऽमृतैः । विष्णुः प्रशान्तकोपाग्नि-जज्ञेऽसीमशमोदधिः ॥४१९।। स्वभावस्थं तदा साधु महापद्मोऽनमत् मुदा । तमुपालभ्य सूराणां पादान्ते मुनिरागतः ॥४२०॥ आलोचितः प्रतिक्रान्तः पापं सङ्घप्रभावनाम् । कृत्वा विशुद्धचारित्र-युक्तो विष्णुः शिवं गतः ॥४२१॥ १. हजु चोमासानो अभिग्रह पूर्ण थयो नथी । २. ते वेला अचल एवी पृथ्वी पण चलायमान थई ।
15
20
D:\chandan/new/kalp-1/pm513rd proof