SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 10 दीपालिकाकल्पः ॥] [११९ तादृश्याऽसमया ऋद्ध्या पद्मः प्राप्तो निजे पुरे । पित्रा प्रवेशितोऽतुच्छ-घनोत्सवपुरस्सरम् ॥३९८॥ ततो भरतसाम्राज्या-भिषेकं सन्महोत्सवम् । महापद्मस्य राजानश्चक्रुः पद्मोत्तरादयः ॥३९९।। साकं विष्णुकुमारेण नृपः पद्मोत्तरस्ततः । सुव्रताचार्यपादान्ते प्रव्रज्य त्रिदिवं ययौ ॥४००॥ षष्टिशतानि ६००० वर्षाणि तपस्तीवं वितन्वतः । जाता विष्णुकुमारस्य लब्धयो वैक्रियादिकाः ॥४०१॥ महापद्मनरेन्द्रेण तुङ्गशृङ्गैर्गतप्रमैः । प्रतिद्रङ्ग प्रतिग्रामं प्रासादैर्भूषिता मही ॥४०२॥ प्रौढप्रभावनापूर्व-स्वर्णरत्नमयै रथैः । जनन्याः पूरितस्तेन रथयात्रामनोरथः ॥४०३।। वरेण नमुची राज्यं क्रतुहेतोरयाचत । चक्री दत्वा तदेतस्य स्वयमन्तःपुरे स्थितः ॥४०४।। तदा वर्षाचतुर्मासाभिग्रहा हस्तिनापुरे । परिवारयुतास्तस्थुः श्रीमत्सुव्रतसूरयः ॥४०५।। निरीक्ष्य नमुचिः सूरीन् स्मरन् वैरं तदाऽवदत् । त्वां मुक्त्वा भक्तितः सर्वे लिङ्गिनो मामुपस्थिताः ॥४०६।। स्थेयं न साधुभिस्तन्मे भूमौ सप्तदिनोपरि । स्थाता यस्तमहं हन्ता देयं मम न दूषणम् ॥४०७॥ प्रधानैः सचिवैः सोऽथ सङ्घन च बहूक्तिभिः । स्थित्यर्थं तत्र साधूनां मानितोऽपि न मन्यते ॥४०८॥ सङ्घस्यानुज्ञया पेष्य साधू सुव्रतसूरयः । मेरुशृङ्गस्थितं विष्णुकुमारं मुनिमाह्वयन् ॥४०९।। १. समं विष्णुकुमारेण स्वयं पद्मोत्तरो नृपः । सुव्रताचार्यपादान्ते परिव्रज्य ययौ शिवम् ॥ इतिदीपालिकाकल्पः, श्लो०-२५३ । २. यज्ञने माटे कार्तिकपूर्णिमा सुधी । ३. चटूक्तिभिः । D:\chandan/new/kalp-1/pm513rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy