________________
दीपालिकाकल्पः ॥]
[११५ द्विपृष्ठश्च त्रिपृष्ठश्च विष्णवो भाविनो नव । तिलको लोहजङ्घश्च-वज्रजङ्घश्च-केशरी ॥३४६।। बलि-पह्लादनामाना-वपराजित-भीमकौ । सुग्रीवश्च प्रतिकृष्णाः स्वचक्रेण हता नव ॥३४७॥ जयन्तो व्याजितो-धर्मः-सुप्रभाह्वः-सुदर्शनः ।। आनन्दो-नन्दनः-पद्मः सङ्कर्षणो बला नव ॥३४८।। एकषष्टिस्तृतीयाऽरे शलाकापुरुषास्तथा । उत्सपिण्यास्तुरीये तु जिनश्चक्री च भाविनौ ॥३४९।। कल्पद्रुमे समुत्पन्ने युग्मिनो भाविनस्ततः । अष्टादशकोटिकोटीरतराणि निरन्तरम् ॥३५०॥ उत्सर्पिण्यवसर्पिण्यौ कालचक्रं निगद्यते । तान्यतीतान्यनन्तानि पुनर्भाविनि भा(भ)रते ॥३५१॥ इत्यादिश्य प्रबोधार्थं प्राहिणोत् देवशर्मणः । गौतमं निकटग्रामे प्रेमबन्धच्छिदे जिनः ॥३५२॥ समस्तपूर्ववेत्तृणां स्वामिस्त्रिशती ३०० तदा ।
धज्ञानिनश्चासं-स्त्रयोदशशतीमिताः १३०० ॥३५३॥ सप्तशती ७०० वैक्रियाणां तथा केवलिनामभूत् ७०० । विपुलानां पंचशती ५०० वादीनां च चतुश्शती ४०० ॥३५४।। अनुत्तरोपपातिना-मष्टशत्यभवत्तथा ८०० । एवं समस्तसाध्वादि-युतः षष्ठतपाः प्रभुः ॥३५५।। त्रिंशत्समा गहे चास्थात सार्द्धद्वादशसंयतः३ ।। ज्ञानी त्रिंशत्तमोऽङ्खनाः द्वासप्ततिशरद्वयाः ॥३५६।। कार्तिकस्य तिथौ दर्शे द्वितीये चन्द्रवत्सरे । प्रीतिवर्द्धनसन्मासे पक्षे तु नन्दिवर्द्धने ॥३५७।। दिने चोपशमाह्वाने देवानन्दाह्वया निशि । सर्वार्थसिद्ध-मौहूर्ते नागे च करणे तथा ॥३५८।।
१. प्रतिवासुदेवाः । २. सागराणि । ३. छद्मस्थः । ४. अवस्था । ५. हमेशां चार घडी बाकी होय त्यारे ज शरु थाय छे.
D:\chandan/new/kalp-1/pm5\3rd proof